This page has been fully proofread once and needs a second look.

(कथञ्चिदनुसन्धाय प्रकाशम्)
 
गन्धर्वैर्वा भुजगपतिभिर्दैवतैर्दानवैर्वा
रक्षोभिर्वा प्रमथपतिभिर्दिग्गजैर्भूमिपैर्वा ।
व्यस्तैरेभिर्युगपदथवा युष्मदिच्छानुरूपं
योद्धुं वाञ्छाभ्यपि भृगुपतौ न प्रहर्तास्मि विप्रे ॥ ५८ ॥
 
नारदः - सदृशमेतद् भवतः ।
 
कृष्णः - न खलु वयं मगधराजस्य वाञ्छानुकूलाः ।
 
जरासन्धः - यद्येवं यैः समराङ्कणमवतरामि ।
 
कृष्णः - नन्वस्माभिरेव ।
 
जरासन्धः - मदांभेहितेषु कतमे भवन्तः ।
 
कृष्णः - यतमो भवान् ।
 
जरासन्धः - अपि यूयं क्षत्रियाः ।
 
कृष्णः - यथावगतं बार्हद्रथेन ।
 
जरासन्धः - विशेषं श्रोतुमिच्छामि ।
 
कृष्णः -
 
अयमनिलसुतस्ते यश्चिराद् योद्धुमिष्टः
कुपितबकहिडिम्बध्वंसनो[^1] भीमसेनः ।
अयमपि कपिकेतुर्धूमकेतुः परेषां
तव रिपुरभियोज्यो मध्यमः पाण्डुपुत्रः ॥ ५९ ॥
 
(जरासन्धः हर्षमभिनीय भीमार्जुनौ पश्यति ।)
 
नारद:- (सर्वानवलोक्य) सर्वथा सर्वस्यापि रसान्तरेष्वस्वतन्त्र-
मन्तःकरणं भविष्यति । तथाहि,
-
[^1] 'ध्वंसिता' ख.