This page has been fully proofread once and needs a second look.

जरासन्धः - कृतार्थोऽस्मि ।
 
उभौ - (जनान्तिकम् ) अहो [^1]आशीर्वादचातुर्यकौशलं केशिसूदनस्य ।
(राजानं प्रति) अस्य चिरन्तनस्य मुनेराशिषोऽभिप्रायः सिध्यतां (?) ते ।
 
जरासन्धः - [^2]उपविशन्त्वमीष्वासनेषु । (सर्व उपविशन्ति) ।
 
जरासन्धः - (कृष्णं निर्वर्ण्य स्वगतम्)
 
प्रायः सोऽयं नयनविषयं क्वापि मे प्राप्तपूर्वः
 
(अर्जुनमवलोक्य)
 
कस्याप्येष प्रकृतिसुभगो <flag>भाग्यभाजस्तनूजः</flag>।
 
(भीममभिवीक्ष्य)
 
पीनस्कन्धः पृथुलनयनः कोऽप्ययं बाहुशाली
 
(समाधाय)
 
ये वा के वा [^3]वपुरनुचितं वेषमेते वहन्ति ॥ ३८ ॥
 
[^4](निरूप्य) अपूर्वोऽयं स्नातकसमुदाचारः । यदद्वारेण प्रवेशः
सव्येन पाणिना यष्टिधारणं <flag>बहिर्वाल्यत्वं</flag> च । भवतु अर्हणानन्तरं
प्रष्टव्यम् ।
 
अर्जुन: - (स्वगतम् )
 
सोऽयं मायामनुष्यस्य प्रभावो भुवनप्रभोः ।
यद्रिपुर्निपुणोऽप्येनं न नितुं प्रगल्भते ॥ ३९ ॥
 
जरासन्धः – (कञ्चुकिनं प्रति) गच्छ ब्रूहि विमलमेधसे पुरोधसे ।
 
कञ्चुकी – देव ! किमिति ।
 
जरासन्धः - शीघ्रमागत्यातिथयो यथाविधानमर्हणीया (इत्य-
र्धोक्ते)
 
कृष्णः - मा मा मगधराज !
 
-
[^1]. 'र्वादकौशलं' ख.
[^2]. 'उपविशन्तामिष्ठासनेषु' ख.
[^3]. रनुपमं' क.
[^4]. (निपुर्ण निरूप्य)' ख.