This page has been fully proofread once and needs a second look.

इदमपि विना हेतोश्चेतः कुतोऽपि विघूर्णते ।
किमभिलषितं दैवस्याहो निरदअङ्कुशरंहसः ॥ ३५ ॥
 
[^1](निश्चित्य) तदेतद् दुर्निमित्तजातं भगवत्तां भूमिदेवानामाति-
थ्यकल्पनेन [^2]प्रशममुपनयामि । (इति परिक्रामति) ।
 
काञ्चुकीयः - देव । इत इतः । इयमास्थानशाला । एतेऽप्य-
तिथय ।
 
कृष्णः - (राजानमवलोक्य स्वगतम्)
 
किं मूर्तोऽयं रसानां प्रसरति निचयो वीररौद्राभुतानां
 
अर्जुनः - (स्वगतम्)
 
निःसीम्नां विक्रमाणां किमयमभिनवो रूपवान् सन्निपातः ।
 
भीमः - (स्वगतम् )
 
किं तावन्मर्त्त्यमूर्त्त्या जगति परिणतो गर्वसर्वस्वमारः
 
सर्वे - (स्वगतम्)
 
सोऽयं (चे? द्वे)ष्टाप्यभीष्टः सुहृदिव हृदयं दानकृष्णुर्धिनोति
॥ ३६ ॥
 
जरासन्धः - ( अग्रतोऽवलोक्य) [^3]दिष्टयानुगृहीतमिदमस्मद्भ -
वनमतिथिपुरुषोत्तमसमागमेन ।
 
कृष्णः - (स्वगतम् ) किं परिज्ञातोऽस्मि ।
 
जरासन्धः - ( सविनयम् ) स्वागतमतिथिमुख्येभ्यः ।
 
भीमार्जुनौ - (स्वगतम्) अहो अतिथिसत्कारपारतन्त्र्यं
बार्हद्रथस्य ।
 
कृष्णः - (स्वगतम्) नन्ववसरोऽयमाशीर्वादस्य । तदेवं
तावत् । (प्रकाशम् )
 
भीमशत्रुकृतान्तस्य धर्मराजनिवेशनम् ।
प्रस्थितस्य महीपाल ! पन्थानः सन्तु ते शिवाः ॥ ३७ ॥
 
-
[^1]. '(निश्वस्य) ' ख.
[^2]. 'प्रशमनं' ख.
[^3]. 'अस्मदिति' खपाठे न ।