This page has been fully proofread once and needs a second look.

काञ्चुकीयः -
 
आस्थानस्थाः प्रतीक्षन्ते देव देवस्य दर्शनम् ॥ ३२ ॥
 
जरासन्धः - [^1]हन्त! कर्तव्ययोर्विप्रतिषेधे वर्तामहे । (विचिन्त्य)
सर्वथा प्राणैरपि प्रीणनीया ह्यतिथयः । तदेतान् सम्भावयामि ।
(इत्युत्थातुमिच्छति ) ।
 
(प्रविश्य सत्वर:)
 
सारथिः - आयुष्मन् !
 
मुखरकनककिङ्किणीकराल -
ध्वजपटपल्लवचुम्बितम्बुवाहः ।
अयमलघुतुरङ्गहर्षहेषा-
प्रतिरवपूरितदिङ्मुखो रथस्ते ॥ ३३ ॥
 
[^2]तदारोहत्वायुष्मान् ।
 
जरासन्धः - अयमहमारूढ एव भगवतो भूमिदेवानभिलषि-
तेन तोषयित्वा ।
 
सारथिः - किञ्चिदन्यद् विज्ञाप्यमस्ति ।
 
जरासन्धः - ब्रूहि ।
 
सारथिः - आयुष्मन् ! रथवाजियोजनवेलायां
 
खलु तार्क्ष्यध्वजाभिख्यां स्यन्दनस्याशु सन्दधत् ।
क्रूरः पत्ररथः केतौ निलीयोदपतद् द्रुतम् ॥ ३४ ॥
 
जरासन्धः - (स्वगतम्) अहो क्रूरता निमित्तस्य । (प्रकाशम् )
भवतु । सुकरप्रतीकारमेतत् ।
 
सारथिः - यथाज्ञापयत्यायुष्मान् । ( इति प्रस्थितः । )
 
जरासन्धः - ( उत्थाय निमित्तं सूचयित्वा)
 
स्खलति चरणं वृन्तप्रान्ते विलंबिनि (याससं ? वाससि)
स्फुरणाविधिना वामं चक्षुः गतिं प्रतिषेधति
 
-
[^1]. 'हन्त' इति खपाठे न ।
[^2]. 'तदात्वारो' क.