This page has been fully proofread once and needs a second look.

प्रतीहारी - (स्वगतम्) (क) [^1]परपरक्कमपरिभावणो होन्ति वीर-
लोआ ।
 
जरासन्धः- [^2]तत् सर्वथा ।
 
गाण्डीविनं समरमूर्ध्नि शरैः प्रमथ्य
वन्ध्यं विधाय निजनाम युधिष्ठिरस्य ।
माद्यद्वृकोदरविमर्दमहोत्सवेन
निर्वाणमभ्युपगमिष्यति मागधेन्द्रः ॥ ३१ ॥
 
कियद्दूरे प्रस्थानवेला ।
 
([^3]प्रविश्य मौ(इ)र्तिकः, पार्श्वतः पुरुषमवलोक्य च )
 
वातवेग ! गच्छ ब्रूहि सुताय सज्जीकृतं साङ्ग्रामिकं रथमुपस्था-
पयेति ।
 
पुरुषः - (ख) जं देवो आणवेदि ।
 
(इति निष्क्रान्तः ।)
 
(प्रविश्य)
 
काञ्चुकीयः - जयतु महाराजः । दूरादागता: केऽप्यलघुम-
हिमानो द्विजन्मानः ।
 
जरासन्धः - (अनाकर्णितकेन पुनस्तदेव गाण्डीविनमित्यादि
पठति )
 
काञ्चुकीयः - (स्वगतम्) अत्यारूढप्रतिघनिघ्नान्तःकरणो
महाराजः । भवतु, सविशेषं विज्ञापयामि । ( प्रकाशम् )
 
अद्वारेण गृहं प्राप्ताः स्नातकातिथयस्त्र यः ।
 
जरासन्धः - यथासुखमागच्छन्तु । सर्वथा सफलो मेऽद्य
दिवसः ।
 
-
(क) परपराक्रमपरिभविनो भवन्ति वीररलोकाः ।
(ख) यद् देव आज्ञापयति ।
-
[^1]. 'मपटिपन्थिणो होन्ति' ख.
[^2]. 'तत् इति' खपाठे न ।
[^3]. 'प्रविश्य' इति खपाठे न ।