This page has been fully proofread once and needs a second look.

जरासन्धः- (सरोषोत्कम्पम् )
 
मधुरिपुमथितेऽपि भोजराजे
न कटुरदीप्यत कोपधूमकेतुः ।
मम मनसि यथा तथाद्य माद्य-
त्कुरुकुलबालकदर्पजल्पितेन ॥ २८ ॥
 
तदचिरेण पाण्डुपुत्रा अनुभवन्तु मगधराजविरोधपरिपाकम् ।
 
(गदामुद्यम्यावलोक्य च ) ।
 
[^1]संरम्भोत्तालतालध्वजभुजमुसलास्फालनोद्दीपिताश्रि-
श्रेणीपर्यन्तनिर्यच्छि<flag>?</flag>मिकणकलिकारब्धनीराजनायाम् ।
यान्तु प्राणाः प्रणाशं मम समरमुखे भीमसेनस्य शत्रो-
रस्यां क्षोणीश्वराणां रणरणरणिकाभङ्गदायां गदायाम् ॥ २९॥
श्रूयते च कोदण्डविद्यासु पण्डितम्मन्यो गाण्डीवी । (परिजन-
मवलोक्य) धनुर्धनुः ।
 
(पुरुष: धनुरुपनयति ।)
 
जरासन्धः -
 
खेलद्वेतालरक्षःकलहकलकलाभीलकच्छोपकण्ठाः
कृष्यन्तः कायभारान प्रलयघनवटासन्निभानामिभानाम् ।
मद्बाणव्रातकुत्तोद्भटसुभटमुखाम्भोजराजविराज-
त्कल्लोलोल्लासभीमाः समरभुवमसृक्सिन्धवः क्षालयन्तु ॥ ३० ॥
 
प्रतीहारी – (स्वगतम्) (क) अम्मो कुरुकुळणरिन्देसु जरासन्ध-
देवेण आमरणन्तं वेरं णिब्बद्धमासि ।
 
जरासन्धः - अहो दुरात्मनोर्वीरम्मन्ययोः कुरुकुलखेटयो-
र्वाचाटत्वम् । 'ऋतुरपि सुकर' इत्यादि पठति ।
 
-
(क) अहो कुरुकुलनरेन्द्रेषु जरासन्धदेवेन आमरणान्तं वैरं
निबद्धमस्ति ।
-
[^1]. 'जमुसलहलास्फालनो' ख.