This page has been fully proofread once and needs a second look.

अर्जुनः- राज्ञः प्रस्थानमिति श्रूयते । तत् किं नु खल्वि-
दम् ।
 
कृष्ण: - मन्ये दूतकथितकुपितः सम्प्रति बार्हद्रथः [^1]कुरुराष्ट्रं
प्रतिष्ठासुरिति ।
 
भीमः- यमराष्ट्रं प्रतिष्ठताम् ।
 
कृष्ण: - तद् यावदचिरमद्वारेण प्रविश्य राजमन्दिरमराति-
प्रस्थानप्रत्यूहमाचरामः ।
 
उभौ- बाढम् । (सर्वे परिक्रामन्ति) ।
 
कृष्ण: - ( पुरोऽवलोक्य ।) इयमास्थानशाला । कथमत्रा-
सन्निहितो मगधराजः । तदेवं तावत् (किञ्चिदुच्चैः) भो भो राजमन्दि-
राभ्यन्तरचारिणः कञ्चुकीवर्षवरकिरातादयः ! क्क इदानीं वर्तते
मगधराजः ।
 
(नैपथ्ये)
 
सम्प्रत्युक्रान्तकुरुराष्ट्रप्रयाणः साङ्ग्रामिकमङ्गलग्रहणाय लोहाभि-
हारभवनमधितिष्ठति [^2]मगधराजः ।
 
भीमार्जुनौ - हन्त [^3]निवृत्तः सन्देहः ।
 
कृष्ण: - (नैपथ्यं प्रति) यद्येवं निवेद्यतामसुष्मै कालसमागताः
केचन स्नातकातिथयो द्रष्टुकामा इति ।
 
(नैपथ्ये )
 
इदं निवेद्यते ।
 
कृष्ण: - तदत्रैव वयं मगधराजागमनं प्रतिपालयामः ।
 
(ततः प्रविशति निर्वर्तितनीराजनः कृतसन्नाहविधिर्गदापाणिः
क्रुद्धो जरासन्धः, यथोचितव्यापारः परिजनश्च ।)
 
-
[^1]. 'कुरुराष्ट्रं प्रति प्रतिष्ठासु' क.
[^2]. 'महाराज: ' क.
[^3]. 'निर्वर्तितः' क.