This page has been fully proofread once and needs a second look.

[अग्रतो विलोक्य ]
 
अहो विभवतिरस्कृतवस्वोकसारा मगधराजधानी मुष्णाति
चेतः । यैषा -
 
[^1]पृथुकटकालङ्कारैः प्रचलपताकोज्ज्वलाङ्गुलीललितैः ।
तुङ्गैर्ध्वजवजनिकरैः श्रियमाह्वयतीव नाकस्य ॥ २३ ॥
 
अर्जुनः - एवमेतत् । यथाह [^2]चाणूरमल्लमथनः ।
 
भीमः - वत्स फल्गुन ! प्राप्तं [^3]पदव्याः पर्यवसानं, नाद्यापि
प्रतिज्ञायाः ।
 
अर्जुन: – तदपि नेदिष्ठं तर्कयामि । यदर्थमेव केशवोऽप्यनु
[^4]चितवेषधारणक्लेशमनुभवति । [^5]तथाह्यस्य,
 
अर्जुन: – तदपि नेदिष्ठं तर्कयामि । यदर्थमेव केशवोऽप्यनु
चितवेषधारणक्लेशमनुभवति । तथाह्यस्य,
 
पाणौ चक्रप्रणयिनि पदं पश्य धत्ते कुसुम्भं
शार्ङ्गस्याधिश्रयति धनुषः स्थानमाषाढ एषः ।
[^3]वासोयुग्मं विलसति सितं पीतकौशेयधाम्नि
प्रत्यादिष्टं सकलमपरं मण्डनं कुण्डलाभ्याम् ॥ २४ ॥
 
भीमः - एवमेतत् । सत्यमाह वत्स ।
 
गतो वामनरूपी यः शक्रस्यार्थे बलेर्मखम् ।
सोऽस्मदर्थे व्रती भूत्वा याति शत्रोर्गृहं हरिः ॥ २५ ॥
 
(सर्वे परिक्रामन्ति ।)
 
[^7]कृष्ण: - (पुरोऽवलाक्य) प्रत्यासन्नं राजमन्दिरं [^8]सम्भाव-
यामि । यतः -
 
-
[^1]. 'प्रकटपतकोज्ज्वला' क.
[^2]. 'मल्ल' इति ख पाठेन.
[^3]. 'पदव्यां' ख.
[^4]. 'वेषधारी क्लेशं' ख.
[^5]. 'तथाप्यस्य' ख.
[^6]. 'युक्तं' ख.
[^7]. 'कृष्णः' इति खपाठे नास्ति.
[^8]. 'संभावयामः ।' ख.