This page has been fully proofread once and needs a second look.

शिष्यः - (क) तदो तदो ।
 
धौम्यः - ततश्च [^1]बहुधापि घिया बार्हद्रथं समुच्छिध तत्क्षण-
[^2]प्रणिहितलेखहारवचनादागतेन भुवनभारसंहारिणा शौरिणा रिपुकुल-
धनञ्जयेन कुमारधनञ्जयेन सार्धं स्नातकलाञ्छनप्रतिच्छन्नः प्रतिज्ञा-
समर्थनाय राज्ञा प्राभञ्जनिरनुज्ञातः ।
 
[^3]शिष्यः - (ख) तदो तदो ।
 
धौम्यः - (ध्यात्वा) अहो धर्मराजभ्य बुद्धिमत्ता । यत्
कुमारवृकोदरस्य तस्यौद्धत्यपरतन्त्रतामाशङ्कय,
'अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम्' इति सन्दिष्टम् ।
 
शिष्य: - (ग) अहो ए(दे)दाणिं कं तत्थ एक्काइणो गमिस्सन्ति ।
 
धौम्यः- अथ किम् । बुद्धिसाधनाः खलु मनस्विनः ।
 
[^4]शिष्यः – (घ) अहो एदाणं ह्णादअवेसधारणे को अभि -
प्पाओ ।
 
धौम्यः - तत् खल्वमुष्मिन् कर्मणि निरपायमौपयिकम् ।
यतः, '[^5]स्नातकव्रतिनः कदाचिदपि नावधीरयामीति मगधराजस्य
प्रतिज्ञाव्रतम् ।
 
शिष्यः – (ङ) ता एदे किं भोअणत्थमदिहिणो भविस्सन्ति ।
 
धौम्यः - युद्धार्थमतिथयो भविष्यन्ति ।
 
-
(क) ततस्ततः ।
(ख) ततस्ततः ।
(ग) अहो एते इदानीं किं तत्रैकाकिनो गमिष्यन्ति ।
(घ) अहो एतेषां स्नातकवेषभारणे कोऽभिप्रायः ।
(ङ) तदेते किं भोजनार्थमतिथयो भविष्यन्ति ।
-
[^1]. 'बहुधा धिया' ख.
[^2]. 'लेखाहार' क.
[^3]. इदं खपाठे नास्ति ।
[^4]. 'शिष्यः - किं तस्स एव्वं काइणो गमिस्सन्ति । ख.
[^5]. 'व्रतिनं' ख.