This page has been fully proofread once and needs a second look.

डम्बरविह्माविदतिहुवणं भीमसेणं स अळवीरजोहसाहसेक्कणिहसं खंडव
दाबदहणखंडिआखण्डलपरक्कमं गण्डीविणं च ण जाणइ ।
 
धौम्यः - वत्स! कथमिव न जानाति । औद्धत्यमेवापराध्यति ।
 
कुतो मदावलिप्तानां परोत्कर्षविचेतनम् ।
दन्तभङ्गं [^1]तटाघाती विविनक्ति न हि द्विपः ॥ १९ ॥
 
शिष्यः - (क) एव्वं एदम् । तदो तो ।
 
धौम्यः - [^2]ततश्च दर्शिताहङ्कारस्य विद्विषो वचोहरेण प्रयुक्त-
मवमानमसहमानेन [^3]कठिनकरास्फालितविपुलमणिसभास्तम्भसम्भ्रम-
भ्रमितपरिषदा [^4]तुलितकल्पान्तपावकेन कुमारवृकोदरेण [^5]तदिदमजात-
विद्विषे प्रतिज्ञातिम् ।
 
गुरुतरयमदण्डोच्चण्डदोर्दण्डघातै-
र्विघटितविकटोरःपीठघाटाललाटम् ।
[^6]अधिसमरमरातिं भीमसेनेन भग्नं
नृप ! नियतमहोभिः श्रोष्यसि द्वित्रमात्रैः ॥ २० ॥
 
शिष्यः - (ख) समत्थं पडिण्णादम् । तहो तदो ।
 
धौम्यः - ततस्तदाकर्ण्य यद्येवमित एव न चिरादागतं
मगधराजमवगच्छतेत्यभिधाय प्रस्थितः प्रणिधिः
-
पतितसोदरकुटुम्बोद्धरणकुञ्जरं बकहिडिम्बविध्वंसनाडम्वरविस्मापितत्रिभुवनं
भीमसेनं सकलवीरमोधसाहलेकनिकषं खाण्डवदावदहनखण्डिताखण्डलपराक्रमं
गाण्डीविनं च न जानाति ।
 
(क) एवमेतत् । ततस्ततः ।
(ख) समर्थं प्रतिज्ञातम् । ततस्ततः ।
-
[^1]. 'तदाघाती' ख.
[^2]. 'तद्दर्शिता' ख.
[^3]. 'करतलास्फालित' ख.
[^4]. 'वकेन वृकोदरेण' ख.
[^5]. 'तदिदं जातविद्वेषेण ख.
[^6]. 'अभिसमर' क.