This page has been fully proofread once and needs a second look.

क्रतुरपि सुकरो मुदे स्मरारे-
र्नरपतयः पशवश्च तेन कार्याः ।
यदि न मृगयते यमस्य तुष्टयै
समरमखे मगधेश्वरं पशुत्वम् ॥ १६ ॥
 
शिष्यः - (क) सरिसं कुरुकुलालङ्कारस्स पुरन्दरतणअस्स ।
तदो तदो ।
 
धौम्यः - ततश्च पुनरपि रिपुदूतेन दर्पोदग्रमिदमुदग्राहि । रे रे
कुमाराः ! अनाकलितपरात्मसारोऽयमारम्भो भवताम् । के यूयं
जरासन्धदेवे वैरमनुसन्वातुम् । तथाहि -
 
आज्ञामास्थाय केचिद्दधति निजपदे स्थास्नुतां क्षुण्णपक्षाः
[^1]पर्यस्ताः सन्निवेशाद् दिशि दिशि <flag>विवशास्तूंर्णपुत्खाय</flag> केचित् ।
राजानस्तेन भग्नाः कतिचिदधिगता गर्भमम्भोनिधीनां
सुत्रामत्रासितानां परिणतिमुररीकुर्वते पर्वतानाम् ॥ १७ ॥
 
अपि च,
सङ्ग्रामे मानतुङ्गं नमयति स [^2 ]धनुर्नैव मौलिं कदाचित्
चापस्यैवापराङ्गं प्रकटयति दृशां गोचरे न स्वकीयम् ।
दृष्टिः पृष्ठे रिपूणां निपतति न पुनर्बाणपङ्क्तिस्तदीया
जीवापायः परेषां भवति रणमुखे [^3]नैव तत्कार्मुकस्य ॥ १८ ॥
 
शिष्यः - (स्व) सच्चं एईदिसो एव्व मागहो । तह वि [^4]किं
[^5]जदुधरातक्कपङ्ककपडिअसोअरकुडुम्बुद्धरणकुंजरं बकहिडिम्बविद्धंसणा-
 
-
(क) सदृशं कुरुकुलालङ्कारस्य पुरन्दरतनयस्य । ततस्ततः ।
(ख) सत्यं एतादृश एव मागधः । तथापि किं जतुगृहातङ्कपङ्क-
-
[^1]. 'स्तास्स्वान्निवेशात्' ख.
[^2]. 'र्न स्वमौलिं' ख.
[^3]. 'नापि' ख.
[^4]. 'कि एस जदु' ख.
[^5]. 'द्धरणवणकुजरं' ख.