This page has been fully proofread once and needs a second look.

शिष्यः - (क) तदो तदो ।
 
भौम्यः - ततस्तत्कालमेवाजिहीर्षता पुरुषमेधं मगधराजेन
प्रीतो क्चो हरः । रे रे पाण्डुनन्दन !,
 
बाणश्रेणिकरालकार्मुकमहःकिर्मिरदोर्मण्डल-
व्यापारप्रतिषिद्धवैरिवनिताधम्मिल्लमाल्यार्पणः ।
[^1]जन्योद्योगपरङमुखे नृपगणे स्वस्मै प्रतापाय यः
सङ्घामाग्रसमग्रसम्प्रदभरप्रत्यर्थिने कुप्यति ॥ १४ ॥
 
स जरासन्धदेवस्त्वागाह -
 
नृपविपशुसहस्रसाध्यसीमा
पुरुषमखो भविता भवस्य तुष्ट्यै ।
[^2]तदुपहर करं ममोचितं वा
भज [^3]भकरालयमन्धकैः समं वा ॥ १५ ॥
 
शिष्य: - (ख) अहो अवहीरिअसव्वलोओ गव्वगरिमा
माघहस्स । तदो तदो ।
 
धौम्यः - ततश्च तदाकर्ण्य मगधराजनिगलितनिखिलक्षत्रिय-
परित्राणाय किमपि चिन्तयत्यधिगतनये [^4]तपस्तनयेऽनुचिताकर्णनघूर्ण-
मानरोषकलुपीकतेक्षणोत्कया तत्क्षणमिव दिधक्षति जगत्रयं बलतुलित-
महासेने भीमसेने, गुरुनियोगपूर्वपरावरप्रतीकारसम्पादनाकुले नकुले,
द्विषदनादरतिरोहितरोषमीषदपहसति विनयनन्दितनरदेवे सहदेवे रा-
जानुमत्या कुमारफंल्गुनेन तदिदं प्रत्यभिहितो दूतः ।
 
-
(क) ततस्ततः ।
(ख) अहो अवधीरितसर्वलोको गर्वगरिमा मागधस्य । ततस्ततः ।
-
[^1]. 'अद्योद्योगः' क.
[^2]. 'तदुपनय करं' ख.
[^3]. 'मकराकरमन्धकैः' ख.
[^4]. 'तवागाकर्णन' . ख.