This page has been fully proofread once and needs a second look.

शिष्यः - (क) तदो तदो ।
 
धौम्यः - ततः स भगवानजातशत्रुणा यथोचितामपचितिं [^1]
लम्भितः समुपविष्टश्च विष्टरे तदेतत् सन्दिदेश ।
 
त्रिविष्टपसदां तुष्टयै पितुः पाण्डोर्नियोगतः ।
राजसूयं तवाहर्तुं वध्यो मगधराडिति ॥ १२ ॥
 
शिष्यः - (ख) अदिमहन्तो खु णिओअभारो । तदो तदो ।
 
धौम्यः - ततश्च महान्[^3] प्रसाद इति तभियोगं निजमकुट-
शिखरमारोपयति[^4] भीमाग्रजे स तपोनिधिस्तिरोदधे ।
 
शिष्यः - (ग) मण्णे तस्स कलहप्पिअस्स मुणिणो एसो
अंभिप्पाओ। जइ[^5] जुहिट्टिरो राजसूअं उपक्कमिस्सदि । तदो पण्डुपुत्ताणं
सअलराअमण्डलेण सद्धं इदो तदो संपहारा[^6] वट्टिस्संति ।
 
धौम्यः - (विहस्य) वत्स ! स खळु भगवान् परमार्थतिरोहित-
रजोगुणोऽपि[^7] निसर्गतो निरर्गलसुभटसम्फेटलम्पटचित्तवृत्तिरेव वर्तते ।
(विमृश्य ) भवतु को दोषः ।
 
अप्युदारचरित्राणामसारे क्वचिदादरः ।
कस्मै गुणाय गृह्णाति महानीलमणिस्तृणम् ॥ १३ ॥
-
(क) ततस्ततः ।
(ख) अतिमहाम् खलु नियोगभारः । ततस्ततः ।
(ग) मन्ये, तस्य कलहप्रियस्य मुनेरेषोऽभिप्रायः । युधिष्ठिरो
राजसूयमुपक्रमिष्यति । तदा पाण्डुपुत्राणां सकलराजमण्डलेन सार्धं इतस्ततः
संप्रहारा वर्तिष्यन्ते ।
-
[^1] 'यथोचिंतमुपचितिमुपलम्भितः' ख.
[^2] 'विष्टरे सदे' ख.
[^3] 'महाप्रसाद:' ख.
[^4] 'मकुटभार' ख.
[^5] 'जइ' इति कपाठे नास्ति ।
[^6] 'अवस्सं संप' ख.
[^7] 'परमार्थविज्ञानतिरोहित' ख.