This page has been fully proofread once and needs a second look.

धौम्यः - (समन्तादवलोक्य) नात्र कश्विदन्यो जनः । तद्वि-
स्रब्धं श्रूयताम् ।
 
शिष्यः - (क) अवहिदो ह्मि ।
 
धौम्यः - एकदा तु निर्वर्तितदिवसमुखकृत्ये यथोचित
सम्भावनापरितोषितभृत्ये नमभरपतिशिरःपरम्परावतंसितचरणे पौरवा-
भरणे सकलजगदानन्दने पाण्डुनन्दने सह सुहृद्भिर्विविधविनोदनपेशलं
दर्शितमयकौशलं चतुरविलासिनीसञ्चारितचारुचामरमच्छीतलं मणि-
मयसभातलं रुचितुलितपञ्चबाणे सम्यगलङ्कुर्वाणे,
 
किमिदमिति जनानामक्षिविक्षोदहेतुं[^1]
बिविसविदलवलर्क्षं विक्षिपन् दिक्षु तेजः ।
तरुणपवनकोणास्फालवचालवीण:[^2]
परिषदमभिपेदे नारदस्तां नमस्तः ॥ १० ॥
 
शिष्यः - (ख) अम्मो[^3] विह्मअणिज्जं खु जुहिट्टिलस्स
माहव्वं । जदो एआरिसाणं वि महम्माणं अभिगमणिज्जो वट्टइ ।
 
धोम्य:- किमुच्यते । पाण्डवज्येष्ठो युधिष्ठिरः खल्वयम्[^4] ।
अपि च,
 
धम्र्या प्रवृत्ति र्जगतां हिताय
सम्बन्धि मित्रं मधुकंटभारिः ।
लोकोत्तरं भ्रातृषु यस्य हार्दं
काः सम्पदो न स्पृहयन्ति तस्मै ॥ ११ ॥
-
(क) अवहितोऽस्मि ।
(ख) अहो ! विस्मयनीयं खलु युधिष्ठिरस्य माहात्म्यम् । यथा
एतादृशानामपि महात्मनां अभिगम्यो वर्तते ।
-
[^1] 'अक्षिनिक्षेपहेतुं' ख
[^2] 'वाचालवीणं' ख.
[^3] 'अह्मे' ख.
[^4] 'खल्वव्ययम्' क.