This page has been fully proofread once and needs a second look.

नृपाणां[^1] कल्याणं विषदुपगमे प्रार्थ्यमनिशं
विपर्यासे दैवान्जगति विततं सत्यमयशः ।
परार्थे भर्तव्यः पशुभिरिव भारः खलु महा-
नहो पौरोहित्यं न च भवति भोगो न च तपः ॥ ९ ॥
 
शिष्यः - (क) सुठ्ठु भअवं भणादि ।
 
धौम्यः - वत्स! साधवः सर्वप्रकारेणाप्यनुग्राह्या इति प्रति-
पन्नपाण्डवपौरोहित्यभारा वयं वर्तामहे । सम्प्रति च तत्प्रत्ययादहं
रहसि राज्ञा विज्ञापितः । यदुत[^2] जनार्दनवृकोदरधनञ्जयानामविलम्बित-
मनुष्ठीयतां प्रास्थानिकं शान्तिकर्मेति । तदचिरेणैव[^3] समित्कुशादीनि
होमसाधनानि सिद्धार्थकदूर्वायवाङ्कुरगोरोचनाप्रभृतीनि माङ्गलिकानि
सम्भावय[^4] ।
 
शिष्यः – (ख) भअवं ! अविण्णादवृत्तन्तो पुच्छामि । किं
दाणिमैदेहिं उव्वक्कन्तम् ।
 
धौम्यः - वत्स ! महान् खलु कार्यभारः i
 
शिष्य:- (ग) तं कहेदु भअवम् ।
 
धौम्यः - बालः खल्वसि । रजमन्त्रस्तु[^5] चौर्यार्जितद्रविण-
सञ्चय[^6] इव न सुखप्रकाश्यो भवति । तथापि त्वामाभ्यन्तर इति
किञ्चिन्निवेद्यते ।
 
शिष्यः - (घ) अणुग्गहिदो ह्मि ।
-
(क) सुष्ठु भगवान् भणति ।
(ख) भगवन् ! अविज्ञातवृत्तान्तः पृच्छामि । किमिदानीमेतैरुपक्रान्तम् ।
(ग) तत् कथयतु भगवान् ।
(घ) अनुगृहीतोऽस्मि ।
-
[^1] 'नराणां' ख.
[^2] 'तदुत' ख.
[^3] 'तन्नचिरमेव' ख.
[^4] 'संपादय' ख.
[^5] 'राजमन्त्रे' ख.
[^6] 'द्रव्य' ख.