This page has been fully proofread once and needs a second look.

नटी – (क) अय्य! को एसो तुह्माणं वअणं अहि-
णन्दइ ।
 
सूत्र - (विलोक्य) आर्ये ! एष खलु भरतकुलधुरन्धरस्य धर्म-
राजस्य पुरोहितो धौम्योऽस्मद्वचनं[^1] श्लाघयान्नित एवाभिवर्तते ।
तदावामनन्तरकरणीयेषु भरतान्[^2] नियोक्तुमितो गच्छावः ।
 
(इति निष्क्रान्तौ ।)
 
स्थापना ॥
-
(ततः प्रविशति धौम्यः ।)
 
धौम्यः - (सश्लाधम्) 'अपि स्वार्थे प्रवृत्तानां -' इति चतुर-
मुपन्यस्तम् । तथाहि ज्येष्ठपाण्डवस्यायमारम्भः ।
 
निष्पत्तौ राजसूयस्य बन्धमोक्षे च भूभृताम् ।
भीमस्य च प्रतिज्ञा(भ्युल?नुल्ल)ङ्घने मूलतां गतः ॥ ८ ॥
 
तत् सर्वथा मयाप्यमुष्य निष्पत्तये यथाशक्ति प्रयतितव्यम् ।
नेपथ्यं प्रति) वत्स ! मेधातिथे ! । (प्रविश्य )
 
शिष्यः- (ख) अयह्मि ।
 
धौम्यः - वत्स ! कष्टमिदं पारतन्त्र्यं नाम । तत्रापि,
-
(क) आर्य । क एष युष्माकं वचनमाभिनन्दति ।
(ख) अयमस्मि ।
-
[^1] 'मद्वचनं' ख.
[^2] 'भरतं' ख.
[^3] 'नैपथ्यं' ख.