This page has not been fully proofread.

४७८ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे नवमो वर्गः,
 
जनयति विजयं सदा जनानां
 
युधि सुसमाहितमैश्वरं यथा ऽस्त्रम् ॥ ३२ ॥
 
इदमित्यादि - इदं महाकाव्यम् । उक्तेर्वचनस्य यो मार्गः पन्थाः सुसंस्कृत-
शब्दलक्षणः प्रपञ्चितः तेन चित्रं विस्मयनीयम् । सुसमाहितं अलङ्कारयुक्तम् ।
अधिगतं परिज्ञातं सज्जनानां विवदिषतां वक्तुमिच्छतां वदतां च वक्तुं प्रवर्तमा-
नानां सदा विजयं जनयति । सन्निबन्धात् शोभनबन्धात्कारणात् । यथास्त्रमै-
श्वरं पाशुपतम् । अधिगतमुक्तिमार्ग अधिगतः प्राप्तः प्रज्ञातो मोचनमार्गः क्षेपण-
मार्गो येन । चित्रं नानावर्णकेन चित्रितत्वात् । सुसमाहितं युधि संग्रामे विजयं
विदधाति तद्वत् ॥
 
तस्मादादरः कर्तव्य इति तत्रापि य एव व्याकरणमधीतवान् तस्यैवात्रादरो
युक्त इति दर्शयन्नाह—
 
१६२३-दीप-तुल्यः प्रबन्धो ऽयं शब्द- लक्षण - चक्षुषाम् ॥
 
हस्त soर्ष इवाsन्धानां भवेद् व्याकरणार्हते. ३३
 
दीपतुल्य इत्यादि - अयं प्रवन्धो महाकाव्यसंज्ञकः । प्रबध्यते विरच्यत
इति कृत्वा । शब्दलक्षणमेव चक्षुर्येषां तेषां दीपतुल्यः । अत एवैतत्काव्याधि-
गमात् स्वातन्त्र्येणान्यानपि शब्दान् प्रयोक्तुं क्षमत्वात् । व्याकरणादृते चिना हस्ता-
मर्प इवान्धानां हस्तामर्प इवावबोधः यथा अन्धानां हस्तेन घटपटादिवत् ।
स्वपरामृश्यसंस्थानमात्रपरिज्ञानं यथावस्थितस्वरूपपरिज्ञानं एवमनधीतव्याकर-
णानां न शब्दस्वरूपपरिज्ञानं अन्यत्र शब्दश्रवणात् ततश्च तत्स्वरूपापरिज्ञानात्
कुतोऽप्यन्यशब्दप्रयोग इति ॥
 
एवं च कृत्वा विदुषो ऽनुरुध्यमानेन मयेदं काव्यं कृतमिति दर्शयन्नाह -
१६२४- व्याख्या- गम्यमिदं काव्य-
 
मुत्सवः सु-धियार्मलम्, ॥
 
हता दुर्मेधसश् चा ऽस्मिन्
 
विद्वत्- प्रियन्तया मया ॥ ३४ ॥
 
व्याख्यागम्यमित्यादि — व्याख्यागम्यं व्याख्यानाद्विना बोद्धुं न शक्यते ।
किमर्थमीदृशं कृतमिति चेत् उत्सवः सुधियामलं शास्त्रे क्षुण्णबुद्धीनां परं प्रमोदो
जायते । एवं च सत्यस्मिन् काव्ये विषयभूतदुर्मेधसो व्याकरणबाह्याः मया हता
नानुगृहीताः । तस्माद्विद्वत्प्रियतया विद्वांसः प्रिया यस्य मम विद्वत्प्रियः तद्भाव-
स्तत्ता तया हेतुभूतयेति ॥