This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'अयोध्या- प्रत्यागमनं' नाम द्वाविंशः सर्गः --४७७
 
सह मातृभिः हनूमता च सह । अयं नम्रः अनुद्धतः 'समीपं मे नाथ आगतः'
इति तूर्याणां निःस्वनेन सकलं लोकं मार्गप्राप्तं समापूरयन् व्याघ्रुवन् करिणां
च गिरीन्द्रसदृशाम् । '४२९। त्यदादिषु दृशः - ।३।२।६० ।' इति चकारात् क्विन् ।
विक्रान्तैः पादन्यासैः क्ष्मां कम्पयन् सर्वतो विधूनयन् । 'क्ष्मापयन्' इति
पाठान्तरम् । तत्र '२५७०१ अर्तिही - । ७।३।३६।' इत्यादिना पुकू । सम्प्राप्तः
रामसमीपमित्यर्थः ॥
 
१६२०-अथ स-सम्भ्रम-पौर - जना ssवृतो
भरत-पाणि-धृतज्वल- चामरः ॥
गुरु-जन-द्विज- वन्द्यभिनन्दितः
 
प्रविशति स्म पुरं रघु-नन्दनः ॥ ३० ॥
 
अथेत्यादि- - अथ भरतसम्प्रात्यनन्तरं रघुनन्दनो रामः ससम्भ्रमेण साद-
रेण सहर्षेण पौरजनेनावृतः । भरतपाणिना धृतमुज्ज्वलं चामरं यस्य । गुरुजनेन
द्विजैर्वन्दिभिश्च स्तुतिपाठकैरभिनन्दितो ऽभिष्टुतः सन् पुरमयोध्यां प्रविशति म
प्रविष्टः ॥
 
१६२१ - प्रविधाय धृतिं परां जनानां
युव-राजं भरतं ततोऽभिषिच्य ॥
जघटे तुरगाऽध्वरेण यष्टुं
 
कृत-सम्भार-विधिः पतिः प्रजानाम्. ॥ ३१॥
 
प्रविधायेत्यादि - प्रविश्य च पुरं प्रजानां पती रामः जनानां धृतिं प्रीति-
रूपचेतोवृत्तिं परासुत्कृष्टां प्रविधाय कृत्वा भरतं च युवराजमभिषिच्य ततोऽन-
न्तरम् तुरगाध्वरेणाश्वमेधेन यष्टुं जघटे चेष्टितवान् । कृतसम्भारविधिः संश्रियत
इति सम्भारः द्रव्यगण इत्यर्थः । कुतोऽनुष्ठितः सम्भारस्य विधिरितिकर्तव्यता-
लक्षणो येन स इति ॥
 
नायकाभ्युदयान्तं महाकाव्यमिति परिसमापय्य तत्र जयमिच्छता अस्मिन्ना-
दरः कर्तव्य इति दर्शयन्नाह -
 
१६२२–इंदर्मधिगत-मुक्ति-मार्ग-चित्रं
 
विवदिषतां वदतां च सन्- निबन्धात् ॥
 
१ - द्रुतविलम्बितवृत्तम् । 'द्रुतविलम्बितमाह नभौ भरौ ।' इति लक्षणात् ॥