2026-03-05 04:33:23 by ambuda-bot
This page has not been fully proofread.
४७६ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे नवमो वर्गः,
१६१८ - स्थानं नः पूर्व-जानामि॑यम॑धि॒कम॑सौ
प्रेयसी पूर्रयोध्या,
दूरादा॑लोक्यते या हुत- विविध- हविः-
प्रीणिता ऽशेष - देवा ॥
सो ऽयं देशो, रुदन्तं पुर-जनमखिलं
यत्र हित्वा प्रयातौ,
आवां सीते ! वनान्तं सह धृत- धृतिना
लक्ष्मणेन क्षपाऽन्ते ॥ २८ ॥
.
स्थानं न इत्यादि - हे सीते ! असौ पुरी नोऽस्माकं पूर्वजानां स्थानम-
धिकं अतएव च प्रेयसी प्रियतमा । दूरादालोक्यते उच्चप्रासादयोगात् । या
हुतैर्विविधैर्हविर्भिराज्यादिभिः प्रीणिता अशेषदेवा यत्र देशे । पुरजनमखिलं
समस्तं रुदन्तं क्षपान्ते उषसि हित्वा त्यक्त्वा छलेन आवां वनान्तं प्रयातौ सो-
ऽयं देशः सह लक्ष्मणेन धृतष्टतिना धृतसौमनस्येन ॥
१६१९ - तूर्याणामथ निःस्वनेन सकलं
लोकं समापूरयन्
विक्रान्तैः करिणां गिरीन्द्र- सदृशां
क्ष्मां कैम्पयन् सर्वतः ॥
सा ऽऽनन्दा ऽश्रु-विलोचनः प्रकृतिभिः
सार्धं सहा ऽन्तःपुरः
सम्प्राप्तो भरतः स मारुतिरलं
नम्रः समं मातृभिः ॥ २९ ॥
तूर्याणामित्यादि - अथानन्तरं भरतो हनूमतः समुपलब्धरामवृत्तान्तत्वात्
सानन्दाश्रुविलोचनः सानन्दाक्षुणी विलोचने यस्य तथाभूतः प्रकृतिभिः अमा-
त्यादिभिः सार्धं । सहान्तःपुरः अन्तःपुरेण समम् । मातृभिः कौसल्यादिभिः
1
१ – स्रग्धरावृत्तम् —— प्रश्नैर्यानां त्रयेण त्रिमुनियतियुताः स्रग्धरा कीर्तितेयम्'
इति ळक्षणात् ॥ २ - शार्दूलविक्रीडितवृत्तम् । लक्षणमुक्तम् । ३–'क्ष्मापयन् '
इति पाठान्तरम् ।