2026-03-05 04:33:23 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः - ४७५
१६१५ - सेतुं, महेन्द्रं, मलयं स - विन्ध्यं,
स- माल्यवन्तं गिरिर्मृष्यमूकम्, ॥
स- दण्डकारण्य-वतीं च पम्पां
रामः प्रियायाः कथयन् जगाम ॥ २५ ॥
सेतुमित्यादि - एप सेतुस्त्वदर्थे मया कारितः एते च महेन्द्रादयः
इत्यादि प्रियायाः सीतायाः कथयन् जगाम । अयोध्याभिमुखं गतवान् ॥
१६१६ - एते ते मुनि-जन - मण्डिता दिगन्ताः,
शैलोऽयं लुलित-वनः स चित्रकूटः ॥
"
गङ्गेयं सु-तनु- ! विशाल - तीर - रम्या,
मैथिल्या रघु-तनयो दिशन् ननन्द ॥ २६ ॥
एते इत्यादि - शोभना तनुः शरीरं यस्याः सा त्वं हे सुतनु ! क्वचिदुका-
रान्तमपि स्त्रियः प्रोक्तमिति वचनात् नदीसंज्ञकत्वात् सम्बुद्धिं ह्रस्वत्वम् । 'कृषि-
चमित निसर्जिमज्जिभ्यः' इत्यौणादिकस्तनुशब्दः । एते दिगन्ता मुनिजनैस्तन्निवा-
सिभिर्मण्डिताः भूषिताः । अयं सं चित्रकूटः यत्र भरतेनागम्य दृष्टोऽस्मि ।
लुलितवनोऽस्मद्वेगवशात् । इयं च गङ्गा विशालतीरतया रम्या । एवं मैथिल्या
दिशन् कथयन् ननन्द मुदितः ॥
१६१७-शिञ्जान-भ्रमर-कुलाऽऽकुलाऽग्र- पुष्पाः
शीताऽम्भः - प्रविलय-संप्लवा ऽभिलीनाः ॥
एते ते सु-तनु ! पुरी-जनोपभोग्या
दृश्यन्ते नयन-मनोरमा वना ऽन्ताः ॥ २७॥
शिक्षानेत्यादि - सुतनु ! एते वनान्ताः पुर्या दृश्यन्ते । शिक्षानैः कूजद्भिः
भ्रमरकुलैः आकुलाग्राणि पुष्पाणि येषां वनान्तानाम् । प्रविलीयतेऽस्मिन्निति
प्रविलयः । '३२३१। एरच् । ३ । ३ । ५६ ।' निमिलीभ्यां खलचोः प्रतिषेधो वक्तव्यः ।
'२५०९। विभाषा लीयतेः । ६।१।५१।' इत्यात्वं न भवति । शीताम्भसः प्रवि-
लयः कुल्या तेन यः संप्लवः स्नापना तेनाभिलीनाः कुल्यया सिच्यमानमूलत्वात् ।
अत एव नयनमनोरमाः रमयतीति कर्तर्यच् । पश्चात् षष्ठीसमासः । एवं च
पुरीजनानामयोध्यानिवासिनां उपभोग्याः ॥