This page has not been fully proofread.

1
 
४७४ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण- रूपे नवमो वर्गः,
१६११ - एवं युवां मम प्रीत्यै कल्तास्थः कपि-राक्षसौ ! ।
 
गन्तुं प्रयतितासाथै प्रातः सह मया यदि ॥ २१ ॥
 
.
 
नैवमित्यादि लोकद्वयम् - हे कपिराक्षसौ ! प्रातर्मया सह गन्तुं यदि
प्रयतितासाथे यत्नं कर्तास्थः । एवं सति युष्मद्विरहदुःखेन वयं न व्याघानिता-
स्महे न पीडिता भवितास्मः । कर्मणि लुट् । चिण्वदिट् । 'संयोजितास्महे'
इति पाठान्तरम् । न संयोजिता भवितास्मः । युजेर्ण्यन्तस्य चिण्वदिट् । इटोs-
सिद्धत्वात् '२३१३। णेरनिटि । ६।४।५१।' इति णिलोपः । भवद्भ्यां च वियोगजः
श्रमः खेदो नानुभविता । अत्रापि चिण्वदिट् । एवं मम प्रीत्यै युवां कल्तास्थः
सम्पादितास्थः। '२३५१ । लुटि चक्लृपः । १।३।९३।' इति तङभावपक्षः । '२३५२
तासि च क्लृपः ।७।२।६०।' इतीट्प्रतीषेधः । क्लृपि सम्पद्यमाने चतुर्थी ॥
१६१२ – उक्तवन्तौ ततों रामं वचः पौलस्त्य - वानरौ ॥
 
अनुग्रहो ऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह.
उक्तवन्तावित्यादि - ततो ऽनन्तरं पौलस्त्यवानरौ विभीषणसुग्रीवौ रामं
वच उक्तवन्तौ । हे काकुत्स्थ ! त्वया सह यदावां गन्तास्त्रः गमिष्यावः अयम-
नुग्रहः प्रसाद इति ॥
 
१६१३ – अनुमन्तास्वहे ना ssवां भवन्तं विरहं त्वया ॥
 
अपि प्राप्य सुरेन्द्र-त्वं, किं नु प्रत्तं, त्वया ऽऽस्पदम्. ॥
अनुमन्तास्वहे इत्यादि— किं च सुरेन्द्रत्वं देवेन्द्रत्वं प्राप्तावप्यावां त्वया
सह भवन्तमुत्पद्यमानं विरहं वियोगं नानुमन्तास्महे किं पुनस्त्वया प्रत्तं दत्तम् ।
'३०७८। अच उपसर्गात्तः । ७।४।४७।' आस्पदं राज्यं प्राप्तवन्तौ । अत्र सुतरा-
मेव त्वया सह वियोगो न युज्यते । भवन्तं विरहमिति वर्तमानकालः नानुम-
न्तास्वह इति भविष्यत्कालेन सम्बध्यमानः साधुर्भवति '२८२४ । धातुसम्बन्धे
प्रत्ययाः ।३।४।१।' इति । एतावल्लुड्विलसितम् ॥
 
अथ सर्गभङ्गार्थं छन्दोऽन्तरेण तच्छेषभूतमर्थवशात् प्रकीर्णकक्रियाविलसितं
दर्शयन्नाह—
 
१६१४-ततः कथाभिः समतीत्य दोषा-
मारुह्य सैन्यैः सह पुष्पकं ते ॥
 
सम्प्रस्थिता वेग-वशाद-गाधं
 
प्रक्षोभयन्तः सलिलं पयोधेः ॥ २४ ॥
 
तत इत्यादि - कथाभिरनन्तरोक्ताभिः दोषां रात्रिं समतीत्य प्रेरयित्वा ततो
नन्तरं ते रामादयः पुष्पकं विमानमारुह्य सैन्यैः सह अयोध्यां यातुं संप्रस्थिताः।
पंयोधेः सलिलमगाधमक्षोभ्यमपि वेगवशात्प्रक्षोभयन्तः ॥