2026-03-05 04:33:22 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः - ४७३
१६०५-आख्यातासि हतं शत्रुभिषिक्तं विभीषणम्, ॥
सुग्रीवं चा ऽर्जितं मित्रं, सर्वांश् चाऽऽगामुकान् द्रुतम्
आख्यातासीत्यादि - हतं शत्रुं रावणं लङ्कायामभिषिक्तं विभीषणं अर्जितं
मित्रं च सुग्रीवं विशिष्टमाख्यातासि कथयितासि । सर्वांश्चास्मान् द्रुतमागामु-
कानू आगमनशीलान् ॥
१६०६–गन्तारः परमां प्रीतिं पौराः श्रुत्वा वचस् तव, ॥
ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम्. १६
गन्तार इत्यादि - त्वद्वचनं श्रुत्वा पौराः पौरजनाः परमां प्रीतिं गन्तारो
गमिष्यन्ति । एतन्मदागमनवृत्तान्तं श्रुत्वा सम्मुखीनः प्रतिविम्वाश्रय इव
सम्मुखो भूत्या मामेवागमिष्यति भरतो ध्रुवमसंशयम् ॥
१६०७ - गते त्वयि पथा ऽनेन वयमप्यंहितास्महे, ॥
लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे ॥ १७॥
गत इत्यादि - त्वयि पथा अनेन मंयाभिहितेन गते वयमपि अंहितास्महे
प्रयातास्मः । 'अहि गतौ' । भूयश्च पुनरपि भवति त्वयि सम्मुखे प्राप्ते धृतिमहं
लव्धाहे प्राप्तोस्मि । '२२५० ह एति ।७।४।५२।' इति तासि सकारस्य हकारः ॥
१६०८ - गते तस्मिन् गृहीता ऽर्थे रामः सुग्रीव - राक्षसौ ॥
उक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम् . १८
गंते तस्मिन्नित्यादि - तस्मिन् हनूमति गृहीतार्थे अवगतसन्देशार्थे गते
सति रामः सुग्रीवराक्षसावुक्तवान् । युवां मया सह श्वो दिने अभिगन्तास्थः
पुरमयोध्यां गमिष्यथः ॥
१६०९-द्रष्टास्थस् तत्र तिस्रो मे
मातृस् तुष्टाऽन्तराऽऽत्मनः ॥
आत्यन्तीनं सखित्वं च
प्राप्तास्थो भरता ऽऽश्रयम् ॥ १९ ॥
द्रष्टास्थ इत्यादि - तत्र च पुनः पुर्यां नोऽस्माकं तिस्रो मातृः कौसल्याद्याः ।
स्त्रस्रादित्वान्न ङीप् । शसि प्रथमयोः पूर्वसवर्णदीर्घत्वम् । तुष्टान्तरात्मनः हृष्ट-
मानसाः दृष्टास्थः । भरताश्रयं च भरतनिबन्धनं च सखित्वं मित्रत्वं आत्यन्तीनं
अत्यन्तं गामीत्यस्मिन्नर्थे '१८१२। अवारपार - । ५।२।११।' इत्यादिना खः ।
प्राप्तास्थः लव्धासाथे ॥
१६१० - नैवं विरह - दुःखेन वयं व्याघानितास्महे, ॥
श्रमो नुभविता नैवं भवद्भ्यां च वियोग-जः, ॥२०॥