2026-03-05 04:33:22 by ambuda-bot
This page has not been fully proofread.
४७२ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे नवमो वर्गः,
गाहितासे ऽथ पुण्यस्य
गङ्गां मूर्तिमिव द्रुतम् ॥ ११ ॥
स्यन्त्वेत्यादि - अथानन्तरं या गङ्गा दिवः स्यन्त्वा स्यन्त्वा स्रुत्वा स्रुत्वा ।
'३३४३। आभीक्ष्ण्ये णमुल् च । ३।४।२२।' इति चकारात् क्त्वा च आभीक्ष्ण्ये च द्वे
भवतः । शम्भोर्मूर्ध्नि स्कन्त्वा गत्वा । क्षितिं गता । '३३२१ । क्त्विस्कन्दिस्यन्दोः
।६।४।२१।' इत्यनुनासिकलोपप्रतिषेधः । तां पुण्यस्य मूर्तिमिव द्रुतां [ द्रवरूपेण
स्थिताम् ] गाहितासे स्नातुम् विलोडितासि ॥
१६०२–तमसाया महा- नील- पाषाण- सदृश- त्विषः ॥
वना ऽन्तान् बहु मन्तासे नागराऽऽक्रीड - शौखिनः.
तमसाया इत्यादि - तमसायाश्च नद्याः वनान्तान् वनोपकण्ठान् महानी-
लमणेस्तुल्यत्विषोऽतिनीलत्वात् । नागराणां आक्रीडो रन्तव्यं तत्साक्षिणः बहु
मन्तासे श्लाघितासे ॥
१६०३ - नगर - स्त्री-स्तन- न्यस्त-धौत-कुङ्कुम- पिञ्जराम् ॥
विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी. ॥१३॥
नगरेत्यादि — नगरस्त्रियः अयोध्यास्त्रियः तासां स्तनेषु यत्पूर्वन्यस्तं पश्चा-
तं कुङ्कुमं तेन पिञ्जरां कपिशां अंत एव रम्यां सरयूं विलोक्य अयोध्या पुरी
त्वया गन्ता गन्तव्या ॥
१६०४-आनन्दितारस् त्वां दृष्ट्वा
प्रष्टारश् चावयोः शिवम् ॥
मातरः सह मैथिल्या,
तोष्टा च भरतः परम् ॥ १४ ॥
आनन्दितार इत्यादि - अयोध्यायां च त्वां दृष्ट्वा मातरः कौसल्याद्याः
आनन्दितारः आनन्दिष्यन्ति । आवयोश्च रामलक्ष्मणयोः सह मैथिल्या शिवं
कल्याणं प्रष्टारः प्रश्नं करिष्यन्ति । भरतश्च श्रुत्वा परमत्यर्थं तोष्टा प्रीतिं कर्ता ।
आमन्त्रितार इति पाठान्तरम् । तत्रानित्यण्यन्ता इति दर्शनं तेषां णिज् न
भवति । अन्यथा '२३१३। णेरनिटि । ६।४।१५१।' इति णिलोपो न प्राप्नोति ।
ततश्चामन्त्रयितार इति स्यात् । अथवा आमन्त्रणमामन्त्र इति घनन्तादाचारे
सर्वप्रातिपदिकेभ्य इति क्विप् । तदन्तात्तासेरिट् । अतो लोपे च रूपम् । सह
मैथिल्योरिति पाठान्तरम् । तत्रापि बहुव्रीहौ '८३३ । नघृतश्च । ५ ।४। १५३ ।' इति
कप् न भवति समासान्तविधिरनित्य इति कृत्वा ॥
१ – 'गङ्गां मूर्तिमिव द्रुतम्' इति पाठान्तरम्' । २– 'आक्रीड- साक्षिणः' इति
पाठान्तरम् ।