This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं नाम द्वाविंशः सर्गः - ४७१
स्यदं जवं न सहितारः न सहिष्यन्ते । '३१८६ । स्यदो जये ।६।४।२८।' इत्यनु-
नासिकलोपो निपात्यते ॥
 
१५९६ - द्रष्टासि प्रीति-मानरात् सखिभिः सह सेविताम् ॥
 
स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन् मुहुः ६.२
द्रष्टासीत्यादि - किष्किन्धां च आरात् नातिदूरे द्रष्टासि । प्रीतिमान् जात-
प्रीतिः सन् सखिभिर्मित्रैः ः सह सेवितां अनुभूतां एवं च कृत्वा पूर्वक्रीडां स्मरन्
मुहुः । शेषत्वेन विवक्षितत्वात् षष्ठी न भवति । सपक्षपातं सानुरागमिति
क्रियाविशेषणम् ॥
 
१५९७ - त्वया सन्दर्शितारौ ते माल्यवद्-दण्डकान्यने ॥
 
उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवानहम् ॥७॥
त्वयेत्यादि — माल्यवान् पर्वतः दण्डकावनं दण्डकेति नामारण्यं ते त्वया
सन्दर्शितारौ । कर्मणि लुट् । ययोर्माल्यवद्दण्डकावनयोः व्यवस्थितैः द्वन्द्वैः
सीतावियोगदुःखैः चिरमुपगुतोऽभिभूतः सन् अहं क्लिशितवान् पीडामनुभूत-
वान् । '३०४९। क्लिशः क्त्वानिष्ठयोः । ७/२/५०१' इतीट् । '३३२३। मृडमृद
- ११२७।' इत्यादिना कित्त्वम् ॥
 
१५९८ - आप्तारौ भवता रम्यार्वाश्रमौ हरिणा ऽऽकुलौ ॥
 
पुण्योदक- द्विजाssकीर्णौ सुतीक्ष्ण- शरभङ्गयोः ॥८॥
आप्तारावित्यादि - सुतीक्ष्णशरभङ्गयो रम्यावाश्रमौ हरिणाकुलौ पुण्यैरुद-
कैर्द्विजैः पक्षिभिश्चाकीणौ भवता आप्तारौ प्राप्तव्यौ ॥
 
१५९९-अतिक्रान्ता त्वया रम्यं दुःखमंत्रेस् तपो वनम् ॥
 
पवित्र - चित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात् ॥९॥
अतिक्रान्तेत्यादि - अत्रेश्च तपोवनं रम्यत्वात् त्वया दुःखमतिक्रान्ता अति-
क्रमितव्यम् । चित्रकूटे चाद्वैौ पवित्रे पुण्ये कुतूहलात् त्वं स्थातासि ॥
१६०० - ततः परं भरद्वाजो भवता दर्शिता मुनिः, ॥
 
द्रष्टारश् च जनाः पुण्या यामुनाऽम्बु-क्षतांऽहसः ॥
तत इत्यादि - ततः चित्रकूटात्परं गच्छता भवता भरद्वाजो मुनिर्दर्शिता
द्रष्टव्यः । जनाश्च पुण्याः यामुनाम्बुक्षतांहसः यमुनाजलस्य स्नानात्पानाच्च क्षपि-
तपापाः द्रष्टारो द्रष्टव्या वा । चिण्वदिट् च ॥
 
१६०१ – स्यन्त्वा स्यन्त्वा दिवः शम्भोर्-
 
मूर्ध्नि स्कन्त्वा भुवं गताम् ॥