2026-03-05 04:33:22 by ambuda-bot
This page has not been fully proofread.
४७०
भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे नवमो वर्गः,
द्वाविंशः सर्गः ।
इतः प्रभृति लुटमधिकृत्य विलसितमाह तत्र भविष्यदनद्यतने लुट् ॥
१५९१ - ततो रामो हनूमन्तर्मुक्तवान् हृष्ट- मानसम् ॥
'अयोध्यां श्वः प्रयातासि कपे ! भरत - पालिताम् ॥१॥
तत इत्यादि - ततः सीतासंशोधनानन्तरं रामो हनूमन्तं हृष्टमानसं स्वामि-
कार्यस्य निष्पादितत्वात् उक्तवान् । हे कपे ! श्वोदिने अयोध्यां भरतपालितां
प्रयातासि गन्तासि । '२१९१। तासस्त्योर्लोपः । ७।४।५०।' ॥
१५९२ - गाधितासे नभो भूयः स्फुटन - मेघ- घटा ssवलि, ॥
ईक्षितासे ऽम्भसां पत्युः पयः शिशिर-शीकरम् ॥२॥
गाधितास इत्यादि - भूयः पुनरपि नभः गाधितासे प्रस्थातासे । 'गाष्ट
प्रतिष्ठालिप्सयोः' इत्यनुदात्तेत् । त्वद्गमनवातात् स्फुटन्त्यः खण्डशो भवन्त्यः
मेघघटा मेघपतयो यत्र नभसि । अम्भसां पत्युः समुद्रस्य पयः शिशिरशीकरं
ईक्षितासे द्रष्टासि ॥
१५९३–सेवितासे प्लवङ्ग ! त्वं महेन्द्रा ऽद्रेरधित्येकाः ॥
व्युत्क्रान्त-वर्त्मनो भानोः सह - ज्योत्स्ना- कुमुद्वतीः. ३
सेवितास इत्यादि - हे प्लवङ्ग ! भानोरादित्यस्य व्युत्क्रान्तवर्त्मनः अत्यु-
च्चत्वादतिक्रान्तमार्गस्य महेन्द्राद्रेः अधित्यकाः उपरिभागान् । कुमुद्दती: चिद्य-
मानकुमुदाः सह ज्योत्स्नया पश्चाद्विशेषणसमासः । सज्योत्स्ना वा कुमुद्वत्यः
कुमुदाकरा यासु अधित्यकासु तास्त्वं सेवितासे अनुभवितासि । लवं गच्छतीति
खच्, प्लवं गच्छतीति कर्तरि अच् वा । उखउखीत्यत्र वगिः पठ्यते ॥
१५९४ - चन्दन- द्रुम-संच्छन्ना निराकृत-हिम-श्रथाः ॥
दर्शितारस् त्वया ताश् च मलयोपत्येकाः शुभाः ४
चन्दनेत्यादि - ताश्च पूर्वं दृष्टाः मलयोपत्यकाः मलयासन्नाः भुवः शुभाः
चन्दनद्रुमसंच्छन्नत्वात् । निराकृतहिमश्रथाः तिरस्कृतचन्द्राः । त्वया दर्शितारः
श्वो द्रष्टव्याः । कर्मणि लुट् । चिण्वदिट् चेति सकारलोपः । हिमं श्रनाति मुञ्च-
तीति हिमश्रथः चन्द्रः । 'श्रन्थ सेचनप्रतिहर्पयोः' इति कर्मण्यण् १३१८७
।
अवोध - ६ ।४। ६९ ।' इत्यादिना अनुनासिकलोपो निपात्यते ॥
१५९५ - प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते ॥
लताः स्तवक - शालिन्यो मधुलेहि-कुलाssकुलाः. ॥
प्रतन्व्य इत्यादि - विन्ध्ये लताः स्तबकशालिन्यः सकुसुमस्तबकोपेताः
मधुलेहिकुलाकुलाः भ्रमरकुलसङ्कुलाः प्रतनुत्वात् । कोमलत्वाच्च । गच्छतस्ते तब
१।२——३४७। उपत्यका द्रेरासन्ना भूमिरूर्ध्वमधित्यका ।' इत्यमरसिंहः ।