This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं' नामैकविंशतितमः सर्गः - ४६९
 
शिखर-शिला ऽन्तराल-परिक्लृप्त-जला ऽवसरः ।
स-रस-फल- श्रियंसविततान सुवेल-गिरिः ॥ २१ ॥
भ्रमरेत्यादि - वरेण च स सुवेलगिरिः सरसां अभिनवां फलश्रियं विभूतिं
'विततान विस्तृतवान् । भ्रमरकुलैराकुला व्याप्ता उल्बणाः सुगन्धयश्च सपुष्पास्त-
रवो यत्र गिरौ । तरुणानां अभिनवानां मधूकानां यः सम्भवः तेन पिशङ्गिता-
स्तुङ्गाः शिखाः शिखराणि यत्र । शिखरशिलानामन्तरालेषु परिक्लृप्ता जलावसरा
जलाधारा यन्त्र । जलमपसरत्येभ्य इति '३२३२। ऋदोरप् ।३।३।५७।' ॥
१५८९ - संवाद्भिः स कुसुम - रेणुभिः समीरै-
 
रा॑न॒स्रुर् बहु-फल-धारिभिर् वना ऽन्तैः ॥
श्योतद्भिर् मधु-पटलैश् च वानराणाम्
आप्यानो रिपु-वध-सम्भवः प्रमोदः ॥ २२ ॥
संवाद्भिरित्यादि - सम्भवत्यस्मादिति सम्भवः । रिपुवधः सम्भवो यस्य
प्रमोदस्य स वानराणामाप्यानः वृद्धिं गतः । व्यवस्थितविभाषाविज्ञानात् सोप-
'सर्गस्य प्यायतेः पीभावो न भवति । '३०१९ । ओदितश्च ।८।२। ४५।' इति
निष्ठानत्वम् । कैराप्यानः समीरैः सकुसुमरेणुभिः संवाद्भिः वहद्भिः । वनान्तैः
फलभरधारिभिः । अत एवाननैः । मधुकरपटलैः श्योतद्भिः मध्वित्यर्थात् ॥
१५९०–आयान्त्यः स्व-फल- भरेण भङ्गुरत्वं
 
भृङ्गाऽऽली - निचय-चिता लतास् तरूणाम् ॥
सा ऽऽमोदाः क्षिति-तल - संस्थिताऽवलोप्या
भोक्तणां श्रममुदयं न नीतवत्यः ॥ २३ ॥
इति भट्टिकाव्ये तिङन्तकाण्डे लड-प्रदर्शनो
नाम एकविंशतितमः सर्गः ॥
 
आयान्त्य इत्यादि - तरूणां लताः स्वफलभरेण भङ्गुरत्वं सुभेद्यत्वमायान्त्यः
गच्छन्त्यः।सामोदाः अतएव भृङ्गालीनिचयचिताः । क्षितितलसंस्थितैरेव अवलोसुं
शक्याः। भोक्तृणां कपीनां श्रमं चित्तकायक्लेशं उदयं वृद्धिं न नीतवत्यः । 'विनीतवत्यः '
इति पाठान्तरम् । उत्पूर्वादयतेः कर्तर्यच् । वृद्धिमुपगच्छन्तं श्रममपनीतवत्य इत्यर्थः ॥
इति श्री -
जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये -
चतुर्थे तिङन्तकाण्डे लक्षण-रूपे ऽष्टमः परिच्छेदः ( वर्गः ),
तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं' नाम
एकविंशतितमः सर्गः ॥ २१ ॥
 
१२ – प्रहर्षिणी वृत्तम्— ' म्नौजौगस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् ।
 
४०