This page has not been fully proofread.

४६८ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे ऽष्टमो वर्गः,
 
को वा विश्वजनीनेषु
 
कर्मसु प्राघटिष्यत ॥ १७ ॥
 
क इत्यादि - यदि नारायणो न भवान् तदा तस्मादन्यः को नाम सुरद्विषां
राक्षसानां दृप्तानां प्राणानकर्त्स्यत् छिन्नवान् । 'कृती च्छेदने' । नैव । विश्वजनीनेषु
सर्वलोकहितेषु कर्मसु अनुग्रहलक्षणेषु को नाम प्राघटिष्यत चेष्टितवान् । अत्राच्छे-
दनक्रियाया अघटनक्रियायाश्च तद्विरुद्धच्छेदनघटनोपनिपातादतिपत्तिः । सर्वत्र
'२८०१। किंवृत्तै लुङ्लृटौ । ३ । ३।१४४ । ' इति क्रियातिपत्तौ भूते गहयां लड् ॥
१५८५ - दैत्य-क्षये महा-राज ! यच्च यत्रा ऽघटिष्यथाः ॥
 
समाप्तिं जातु तत्रापि किं ना ऽनेष्यस् त्वमहितम्. १८
दैत्यक्षय इत्यादि - हे महाराज ! नैवेदमवकल्पयामि दैत्यक्षयनिमित्तम्
यच्च यत्र त्वमघटिव्यथाः यां पुनरात्मनो घटनां करिष्यसि किन्तु पुनः प्रादुर्भावे
घटिप्यसे । तत्रापि प्रादुर्भावत्वमीहितं चेष्टितं जातु कदाचित् समाप्तिं सिद्धिं
नानेष्यः किं न नेष्यसि । '२८०४। जातुयदोर्लिङ् ।३।३।१४७।' इति जातुय-
च्छन्दौ अनवक्लृप्तिश्च लिनिमित्तं तस्मिन् क्रियातिपत्तौ भविष्यति नित्यं लुङ् ।
अत्राघटनक्रियायाश्चातिपत्तिः ज्ञानेनोपलब्धभविष्यत्प्रादुर्भावसमाप्तिनयनयोस्त-
 
द्विरुद्वयोरुपनिपातात् ॥
 
१५८६ - तातं प्रसाद्य कैकेय्या भरताय प्रपीडितम् ॥
 
सहस्र-चक्षुषं राम्रो निनंसुः परिदृष्टवान् ॥ १९ ॥
तातमित्यादि - तातं दशरथं कैकेय्या प्रपीडितं सन्तापितं भरताय भरतार्थं
राज्येऽभिषिच्यतामिति प्रसाद्य तद्विषये चित्तकालुष्यं त्याजयित्वा रामः
सहस्रचक्षुपं इन्द्रं परिदृष्टवान् संदृष्टवान् । निनंसुः नन्तुमिच्छुः ॥
१५८७ - प्रेता वरेण शक्रस्य प्राणन्तः कपयस् ततः ॥
 
संजाताः फलिना ssनम्र - रोचिष्णु-दुम- सद्रवः, २०
प्रेता इत्यादि - ततः प्रणामानन्तरं शक्रस्य प्रसन्नस्य वरेण कपयः संग्रामे
प्रेताः संग्रामे मृताः प्राणन्तो जीवन्तः सञ्जाताः संवृत्ताः । कीदृशा इत्याह-
फलिनः फलवन्तः। ' फलबर्हाभ्यामिनच्' अत एव नम्राः नमनशीलाः रोचि -
ष्णवः दीपनशीलाः ये द्रुमास्तेषु सद्भवः सदनशीलाः । '३१३९ । दाधेट् सि
-।३।२।१५९।' इत्यादिना सदे रुः ॥
 
१५८८ - भ्रमर कुला ssकुलोल्बण- सुगन्धि- पुष्प-तरुस्
 
तरुण-मधूक-सम्भव- पिशङ्गित-तुङ्ग - शिखः ॥
 
१ इदं नर्दटकवृत्तम् —'यदि भवतो नजो भजजला गुरु नर्दटकम्' इति
लक्षणात् ।