2026-03-05 04:33:21 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं' नामैकविंशतितमः सर्गः ४६७
ब्रह्मणः सर्ववेदित्वात् कथं शङ्का स्यात् । अत्राधानं हेतुः शङ्कात्यागश्च
हेतुमान् । अस्मिन् । लिङ्गनिमित्ते क्रियातिपत्तौ भूते लृङ् । अन्नानाधानक्रियाया-
स्तद्विरुद्वादानोपनिपातादतिपत्तिर्गम्यते । अथवा नाहमवकल्पयामि यदीदं पर-
गृहोपिताया अग्निप्रवेशशोधनं युक्तं न्याय्यम् तत् भवान् किं चित्रमकरिष्यत्
विस्मयनीयं कृतवात् । एवं राज्ञः लोकस्य व्यवस्थार्थं विशेषे प्रवर्तनात् । २८०२।
अनवक्कृत्यमर्पयोरकिंवृत्तेऽपि । ३ । ३।१४५ ।' इत्यत्रापिशब्दात् किंवृत्तमनवक्लृप्तिश्च
लिङ्गनिमित्तं तस्मिन् लिनिमित्ते क्रियातिपत्तौ भूते लृङ् । अत्र चित्रीकरणक्रि-
याया अतिपत्तिस्तद्विरुद्धस्याचित्रीकरणस्योपनिपातादतिपत्तिर्गम्यते । यदि भवान्
परीक्ष्य सीतायाः परिग्रहणमकरिष्यत् लोकोऽपि तथाकरिष्यत् ॥
प्रधानानुयायित्वाल्लोकस्येति दर्शयन्नाह-
१५८२ - प्रावर्तिष्यन्त चेष्टाश् चेद - याथातथ्य-वत् तव, ॥
अनुशास्ये त्वया लोके रामा ऽवर्त्स्यस्तरां ततः ॥ १५॥
प्रावर्तिष्यन्तेत्यादि - चेद्यदि तव लोकव्यवस्थाकारिणश्चेष्टाः कर्माणि अया-
धातथ्यवत् यथा अज्ञाना असमीक्ष्यकारितया प्रवर्तन्ते तद्वत्यावर्तिप्यन्त तथाप्र-
वर्तनात् त्वया आनुशास्ये व्यवस्थायां स्थाप्ये लोके हे राम ? ताश्चेष्टा अवत्स्यंस्तरां
अतिशयेन प्रावर्तिष्यन्त न च तव प्रवृत्ताः । अत्र रामचेष्टाप्रवर्तनं हेतुः लोकचेष्टाप्रव-
र्तनं च हेतुमत् । तस्मिन् लिनिमित्त क्रियातिपत्तौ भूते भविष्यति लृङ् । अत्रापि
परीक्ष्यस्वीकरणलक्षणक्रियायास्तद्विरुद्धं परीक्षितोपादानानतिपत्तिः । अयाथातथ्य-
वदिति वतिप्रत्ययान्तं क्रियाविशेषणम् । '१७८९। यथातथायथापुरयोः पर्यायेण
।७।३।३१।' इति नजः पर्यायेण वृद्धिः । प्रावत्स्यस्तरामिति (२००२। तिङश्च
।५।३।५६ ।' इत्यातिशयिकस्तरः । '२००४ । किमेत्तिङ् - ।५।४।११।' इत्याम् ।
'१४०। नश्छव्यप्रशान् । ८।३।७।' इति रुत्वं पूर्वस्यानुस्वारः ॥
१५८३–प्रणमन्तं ततो राममुक्तवानिति शङ्करः ॥
'किं नारायणमात्मानं नाऽभोत्स्यत भवानजम् . १६॥
प्रणमन्तमित्यादि -- ततो ब्रह्मवचनानन्तरं शङ्करो महादेवः वक्ष्यमाणम्
वचनं राममुक्तवान् । प्रणमन्तं तमेव राममित्यर्थात् । किन्नाम तत् यथा
आत्मानम् नारायणमजं नित्यं अस्मिन् प्रादुर्भावे भवान्नाभोत्स्यत न बुद्धवान् ।
अपि तु तथाविधं कर्म कुर्वन् ज्ञातवानेवं । अत्र नारायणानवबोधक्रियायाः
तद्विरुद्धबोधनोपनिपातादतिपत्तिः ॥
तदेव दर्शयन्नाह--
१५८४ - को Sri Saर्त्स्यदिह प्राणान्
दृप्तानां च सुर- द्विषाम्, ॥