2026-03-05 04:33:21 by ambuda-bot
This page has not been fully proofread.
४६६ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे ऽष्टमो वर्गः,
अन्वभाविष्यता ऽन्येन
मैथिली चेत् पतिव्रता ॥ ११ ॥
नाकल्प्स्यदित्यादि — मैथिली पतिव्रता सती चेद्यदि त्वत्तोऽन्येनान्वभा-
विण्यत परिभुक्ताभूत् । चिण्वदिद । तदायं स्थाणुर्महादेवः शूली वृषभवाहनः
व्यक्तचिह्नः सन् सन्निधिं सन्निधानं नाकल्प्स्यत् न कृतवान् स्यात् । '२३५२।
तासि च क्लृपः ॥७।२।६०।' इति चकारात् स्ये च परस्मैपदे लङ् । अन्यानुभ-
वनं हेतुः । स्थाण्वागमनं हेतुमत् । पूर्ववत् क्रियातिपत्तौ लुङ् । अत्रान्यानुभवन-
क्रियायास्तद्विरुद्धानन्यानुभवनोपनिपातादतिपत्तिः ॥
१५७९–आनन्दयिष्यदा॑गम्य कथं त्वाम॑रविन्द - सत् ॥
राजेन्द्र ! विश्व-सूर् धाता चारित्र्ये सीतया क्षते. १२
आनन्दयिष्यदित्यादि -- हे राजेन्द्र ! सीतया चारित्र्ये क्षते कुत्सिते कृते
सति एष धाता ब्रह्मा विश्वसूः सर्वस्य जगतः स्रष्टा अरविन्दसत् कमलासनः सन्
आगम्य त्वां कथमानन्दयिष्यत् दर्शनाशीर्वादादिभिरानन्दितवान् गर्हितमेतत् ।
युक्तमागत्यानन्दयितुमित्यर्थः । २८००। विभाषा कथमि लिङ् च । ३ । ३ । १४३॥'
इति कथंशब्दो गर्हा च लिङ्गनिमित्तं तस्मिन् क्रियातिपत्तौ भूते लुङ् । अत्रान-
न्दनक्रियायास्तद्विरुद्धचारित्र्यक्षतोपनिपातादतिपत्तिः ॥
१५८० - प्रणमन् ब्रह्मणा प्रोक्तो राजा ऽधिपतिस् ततः ॥
'ना, ऽशोत्स्यन् मैथिली लोके, नाऽऽचरिष्यदिदं यदि.
प्रणमन्नित्यादि - ततोऽनन्तरं राजकाधिपतिः राजसमूहानां पतिः । राजकं
राजसमूहः । '१२४६। गोत्रोऽक्ष - १४ ।२।३९।' इत्यादिना वुञ् । रामः प्रणमन्
ब्रह्माणमित्यर्थात् । ब्रह्मणा प्रोक्तः मैथिली यदि इदं वह्निप्रवेशनं नाचरिष्यत्
नानुष्ठितवती तदा लोके दुराराधे नाशोत्स्यत् न शुद्धाभूत् किन्तु शुद्धा । 'शुध
शौचे' दिवादिः । अत्राग्निप्रवेशाचरणं हेतुः अशोधनं च हेतुमत् । तयोर्हेतुहेतुमत्त्वे
लिङ्गनिमित्ते क्रियातिपत्तौ भूते लृङ् । अत्राग्निप्रवेशाचरणक्रियायास्तद्विरुद्धाचरणो-
पनिपातादतिपत्तिः ॥
१५८१ - ना ऽमोक्ष्याम वयं शङ्का-
मि॑धास्यन् न चेद् भवान् ॥
किंवा चित्रमिदं युक्तं,
भवान् यद॑करिष्यत ॥ १४ ॥
नेत्यादि - चेद्यदि भवानिह सीतां नाधास्यत् न रोपितवान् । अन्तर्भावि-
तोत्र ण्यर्थः । तदा वयं किं शुद्धा नेति शङ्कां नामोक्ष्याम न मुक्तवन्तः ।
अस्मिन् वस्तुनि अभिप्रमाणत्वेन लोको गृह्णीयादित्येवमुक्तवान् । अन्यथा