This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं' नामैकविंशतितमः सर्गः ४६५
 
चित्रीकरणे च । ३ । ३।१५० १' इत्यत्र '२८०५ ॥ यच्चयत्रयोः । ६।३ । १४८।' इत्यनुव-
र्तते । यच्चयत्रशब्द उपपदे गम्यमानं चित्रीकरणं लिङ्गनिमित्तं तस्मिन् लिङ्गनि-
मित्ते क्रियातिपत्तौ सत्यां भूते लुङ् । अत्र कृच्छ्राभिप्रायानुवर्तनक्रियायास्तस्यां
योपिदनुवर्तनं सामग्र्यभावाद्गम्यते । अन्यच्च स्वभावत एव योषित् कातरा
भवति ततश्च परगृहावस्थित्या दुष्टेति क्रोधादहमवक्षिप्तेति त्रासादस्यां त्रिपन्नायां
प्रच्छन्नविषयं गतायां सत्यां किं किमालप्स्यथाः फलं नाहमवकल्पयामि । किं
नाम तत्र फलं यदाप्स्यसि नैवेत्यर्थः । '२८०२ । अनवक्लृत्यमर्पयोरकिंवृत्तेऽपि'
३।३।१४५।' इत्यत्रापिशब्दात् किंवृत्तमनवकृतिश्च लिडो निमित्तं तस्मिन् लिनि-
मित्ते क्रियातिपत्तौ सत्यां भविष्यति लृङ् । अत्र फलप्राप्तिक्रियायास्तद्वदन्यसाम-
ग्र्यभावात् गम्यते । 'किंकिलालप्स्यथाः फलम्' इति पाठान्तरं तद्युक्तं '२८०३ ।
किंकिलास्त्यर्थेषु ।३।३।१४६ ।' इत्येतस्य लिनिमित्तत्वाभावात् ॥
 
अथवा नाहं दुष्टेत्यवगच्छन्त्या योषितस्त्रास एव नास्ति येन गर्हितं मरणमाच-
रेदिति दर्शयन्नाह -
 
१५७६ - यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोष-वर्जिता ॥
 
तदसूया - रतौ लोके तस्या वाच्या ऽऽस्पदं मृषा ॥९॥
यत्रेत्यादि — गर्हितमेतत् यच्च यत्र या भवति स्त्री दोपवर्जिता शुद्धचरि-
त्रापि साध्वसात् पतित्रासादमरिष्यत् मृताभूत् नैवेत्यर्थः । अदुष्टायाः साध्व-
साभावात् । गर्हायामित्यत्र यच्चयत्रशब्द उपपदं गर्हा च लिङ्गनिमित्तं तस्मिन्
लिङ्गनिमित्ते क्रियातिपत्तौ सत्यां भूते वा लुङ् । अत्र मरणक्रियायास्तद्विरुद्ध-
साध्वसे परनिपातादतिपत्तिर्गम्यते । यदि हि त्रासात् म्रियेत दोष एव स्यादि-
त्याह । तन्मरणं लोकेऽस्मिन्नसूयारतौ सत्स्वपि गुणेषु दोपाविष्करणपरे तस्या
अदुष्टाया योषितः वाच्यास्पदं चचनीयाश्रयं मृपा अलीकमेव दुष्टैवेयम् मृपा
अलीकमेव येन प्रच्छन्नमृतेति । यदि मरणमकरिष्यत् मृपावचनीयास्पदम-
भविष्यत् इति क्रियातिपत्तौ योज्यम् । अन्यथा वाक्यमिदमशरीरकं स्यात्
इदमवगच्छन्त्यानया प्रच्छन्नमरणं नानुष्ठितम् ॥
 
१५७७ – अमंस्यत भवान् यद्वद् तथैव च पिता तव ॥
 
ना ssगमिष्यद् विमान-स्थः साक्षाद् दशरथो नृपः .
अमंस्यतेत्यादि - यद्वद्यथा भवानमंस्यत दुष्टेति ज्ञातवान् तथैतद्यदि
नान्यथा तदा तव पिता दशरथः साक्षात्प्रत्यक्षो विमानस्थः सन् नागमिष्यत्
नागतवान् स्यात् । अत्र दुष्टताभवनं हेतुः दशरथागमनं च हेतुमत् । तयोर्हेतु-
हेतुमत्त्वे लिङ्निमित्ते क्रियातिपत्तौ सत्यां भूते लुङ् । अत्र दुष्टताभवनक्रिया •
यास्तद्विरुद्धादुष्टत्वोपनिपातादतिपत्तिः ॥
 
१५७८-ना ऽकल्प्स्यत् सन्निधिं स्थाणुः
 
शूली वृषभ-वाहनः ॥