2026-03-05 04:33:20 by ambuda-bot
This page has not been fully proofread.
४६४ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपेऽष्टमो वर्गः,
-
त्वयेत्यादि - किं नाम तच्छीलं तच्चरित्रं यदस्याः सीतायाः शीलं चिरं कालं
संवसता त्वया नाद्रक्ष्यत नोपलब्धमेव । चेतोधर्मत्वान्नोपलब्धमिति चेत् किं
वा नाम चेष्टाः शीलनिबन्धनाः क्रियाः बहुनापि कालेन त्वया नादर्शिष्यन्त न
हृष्टा अभूवन् । अपि तु दृष्टा एव । '२८०१ ॥ किंवृत्ते लृङ्लटौ ।३।३।१४४।' इति
किंशब्दो विभक्त्यन्तो गर्हा च लिङ्गनिमित्तं तत्र गर्हायामित्येतदनुवर्तते तस्मिन्
लिनिमित्ते क्रियातिपत्तौ भूते लृङ् । कर्मण्येव चिण्वदिट् । अत्र शीलानुपल-
व्धिक्रियायाश्च तद्विरुद्धचिरवासोपनिपातादतिपत्तिर्गम्यते । तथाहि 'शीलं संवसता
ज्ञेयं तच्च कालेन भूयसा' इति ॥
१५७३ - यावज्जीवम॑शोचिष्यो, ना ऽहास्यश् चेदिदं तमः, ॥
भानुर॑प्य॑पतिष्यत् क्ष्माम॑क्षोभिष्यत चेदि॑ियम् ॥ ६॥
यावदित्यादि - अन्यच्च लोकस्याज्ञानमूलं परगृहोपितेत्येतावतैवापरिशुद्धेत्य-
ज्ञानमुत्पन्नमिदं तमः अज्ञानं यदि त्वं नाहास्यः न त्यक्ष्यसि तदास्या वैलक्षण्येन
मरणादवश्यं यावज्जीवमशोचिष्यः शोकमेष्यसि । अतो मयाभिधीयमानः स्वयं
च विमृशन् परिशुद्धा हीयमित्यवेहि येन न शोचिष्यसि । अत्र भविष्यदज्ञाना-
श्यागो हेतुः । यावज्जीवशोचनं हेतुमत् । तयोर्हेतुमत्त्वे लिङ्गनिमित्त क्रियातिपत्ती
सत्यां भविष्यति नित्यं लृङ् । अन्नाज्ञानत्यागक्रियायास्तद्विरुद्वोपदेशकत्वमर्पितज्ञा-
नोत्पादनिपातादतिपत्तिर्गम्यते । अन्यच्च अभूतवस्तुत्पादकसूचक उत्पातो भवति
न च तथाभूतोऽस्तीति दर्शयन्नाह । यदीयमक्षोभिण्यत् दुष्टचित्ताभूत् तदा-
भानुरपि क्ष्मां पृथ्वीमपतिष्यत् गतोऽभूत् । अत्रापि क्षोभो हेतुः भानुपतनं हेतु-
मत् तयोर्हेतुहेतुमत्त्वं लिनिमित्ते क्रियातिपत्तौ सत्यां भूते लृङ् । अत्र क्षोभक्रि-
यायास्तद्विरुद्वाक्षोभोपनिपातादतिपत्तिः ॥
अन्यच्च सत्येन सवित्रा लोकपाला अदुष्टचित्तेषु संनिधीयन्ते इति दर्शयन्नाह -
१५७४ - समपत्स्यत राजेन्द्र ! स्त्रैणं यद्य॑त्र चापलम्, ॥
लोक-पाला इहा ssयास्यंस् ततो ना मी कलि-द्रुहः.
समेत्यादि - स्त्रीणामिदं स्त्रैणं चापलं चारित्रबन्धनं तदन सीतायां हे राजे-
न्द्र ? समपत्स्यत संपन्नमभूत् । ततः कारणादमी लोकपालाः एवमादयो मूर्ति-
मन्तः कलिद्रुहः पापस्य द्रोग्धारः इह नायास्यन् नागता अभूवन् । चापलमन्त्र
हेतुः लोकपालागमनं हेतुमत् । ततो हेतुहेतुमत्त्वे लिनिमित्ते क्रियातिपत्तौ
सत्यां भूते लृङ् । अत्र चापलाचरणक्रियायास्तद्विरुद्धाचापालोपनिपातादतिपत्तिः॥
अन्यच्च योषित्सामान्येन नेयं द्रष्टव्येति दर्शयन्नाह -
१५७५- आश्चर्यं यच्च यत्र स्त्री कुच्छ्रे ऽवर्त्स्यन् मते तव, ॥
त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्. ८
आश्चर्यमित्यादि — यच्च यत्र या भवति स्त्री यत्तव कृच्छ्रे मते सङ्कटेऽभि-
प्राये अवर्त्यत् प्रवृत्तिमती तदाश्चयं चित्रमेव वर्तते । नान्येति भावः । '२८०७