2026-03-05 04:33:19 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं' नामैकविंशतितमः सर्गः ४६३
इदानीं सीतारावणयोर्यचेष्टितमासीत् तच्चानेनावधार्य प्रकाशयन्नाह-
१५७० -अपि तत्र- रिपुः सीतां ना ऽर्थयिष्यत दुर्मतिः, ॥
क्रूरं जात्व॑व॒दि॒ष्य॒च् च जात्व॑स्तोष्यच्छ्रियं स्वकाम्. ३
अपीत्यादि - तत्ररिपुः स भवान् रिपुः स रावणः । भवच्छब्दो ऽर्थाद्गम्यते
तेन '१९६३। इतराभ्योऽपि दृश्यन्ते ।५।३।१४।' इति त्रल् । अपि बाढं नार्थ-
यिष्यत दुर्मतिरदुष्टचेता अभविष्यत् तदा सीतां वाढं नार्थयिष्यत । भार्या मम
भवेति न प्रार्थितवान् । '२८०९। उताप्योः समर्थयोः - १३।३।१५२।' इति । अत्रा-
पिशब्दो बाढार्थः लिङ्गनिमित्तं तस्मिन् लिङ्गनिमित्ते क्रियातिपत्तौ सत्यां भूते
नित्यं लृङ् । तत्र '२७९८ । चोताप्योः । ३ । ३।१४१।' इति अनुवर्तते । अत्रार्थन-
क्रियायाः तद्विरुद्धदुर्मतित्वोपनिपातादतिपत्तिर्गम्यते । अर्थनमर्थः याचनं ।
तत्करोतीति णिच् । नाहमवकल्पयामि यद्यदुर्मतिरभविष्यत् क्रूरं परुषं जातु
कदाचित् नावदिष्यत् नोक्तवान् । श्रियं विभूतिं स्वकामात्मीयां ईदृशी मे विभू-
तिरिति नास्तोष्यत् न स्तुतवान् स्तुतवांश्च । '२८०४। जातु - यदोर्लिङ् ॥३।३।१४७।'
इत्यन्त्र जातुशब्दोऽनवकृतिश्च लिङो निमित्तं तत्र । '२८०२ । अनवक्रुत्यमर्पयोः
-।३।३।१४५।' इति वर्तते । अत्र क्रूराभिधानक्रियाया विभूत्याः स्तवनक्रियायाश्च
तद्विरुद्धदुर्मतित्वोपनिपातादतिपत्तिः । केचित् 'लडपिजावो:' इत्येतदुदाहरन्ति
तदयुक्तं तस्यालिङ्गनिमित्तत्वात् ॥
१५७१ – सङ्कल्पं ना ऽकरिष्यच् च तत्रैयं शुद्ध-मानसा, ॥
सत्या॒ऽमर्षम॑वाप्स्यस् त्वं रामः सीता - निबन्धनम् ॥४॥
सङ्कल्पमित्यादि — तत्रेयं शुभमानसेति नाहमवकल्पयामि यदीयं शुद्धमा-
नसा नाभविष्यत् । तत्र तस्मिन् रावणे इत्थं प्रीयमाणेऽपि सङ्कल्पमभिप्रायमक-
रिष्यत् कृतवती स्यात् न च कृतवती शुद्धमानसत्वात् । सत्यामर्षमवाप्स्यस्त्व-
मिति हे राम ! यद्यशुद्धमानसा अभविष्यत् तदा सीतानिबन्धनं सीताहेतुकम्
अमर्ष क्रोधं सत्यसंभूतमवाप्स्यस्त्वं प्राप्तः स्याः नतु सत्यं यतः शुद्धमानसा । '२८०२ ।
अनवक्लृत्यमर्षयोरकिंवृत्तेऽपि । ३ । ३ । १४५।' इत्यत्र अनवक्लश्यमर्पयोर्लिङ्गनिमित्तं
तस्मिन् लिङ्गनिमित्ते क्रियातिपत्तौ भूते वा लुङ् । तत्र '२७९८। वोताप्योः
।३।३।१४१।' इत्यधिक्रियते । अत्र सङ्कल्पक्रियायाः सत्यामर्पक्रियायाश्च तद्विरुद्ध-
शुद्ध मानसत्वोपनिपातादतिपत्तिः ॥
अन्यथास्मिन्वस्तुनि नाहमेवैकः प्रमाणं भवानपि प्रमाणमेवेति दर्शयन्नाह--
१५७२–त्वया ऽद्रक्ष्यत किं ना ऽस्याः
शीलं संवसता चिरम्, ॥
अदर्शिष्यन्त वा चेष्टाः
कालेन बहुना न किम्. ॥ ५ ॥