2026-03-05 04:33:19 by ambuda-bot
This page has not been fully proofread.
४६२ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे ऽष्टमो वर्गः,
1
मामित्यादि - हे वह्ने ! यद्यहं दुष्टा तदा ज्वलितवपुः ज्वलितशरीरः
सन् । मित्त्वाभावपक्षे रूपम् । लुपाण देहं मर्त्यलोकात् मोचय । यथा वा क्षत-
मलिनां विशुद्धां सुहृदिव संरक्ष वा । आमन्त्रणे कामचारकरणे लोटू । एपाहं
त्वां विधिवत् सम्यक् प्राप्ता ऋतुषु यज्ञेषु वसोः राज्ञः आज्यधारेव । उदीर्णदी-
तिमालं उद्गतज्वालासमूहं त्वामिति ॥
इति श्री- जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये-
'चतुर्थे तिङन्तकाण्डे लक्षण-रूपे सप्तमः परिच्छेदः (वर्गः),
तथा लक्ष्यरूपे कथानके 'सीता-प्रत्याख्यानं' नाम
विंशतितमः सर्गः ॥ २० ॥
एकविंशः सर्गः-
-
इतःप्रभृति लृङमधिकृत्य विलसितमाह ---तत्र लिहूनिमित्ते लृङ् क्रियातिपत्तौ
भविष्यति भूते च हेतुमतोर्लिङित्येवमादिकं लिङो निमित्तं क्रियातिपत्तिश्च ।
कुतश्चिद्वैगुण्यात् क्रियाया अनिष्पत्तिः क्रियातिपत्तिः वैगुण्यं च विधुरप्रत्ययोपनि-
पातात् सामग्र्यभावाच्च द्रष्टव्यम् ॥
१५६८ - समुत्क्षिप्य ततो वह्निर् मैथिलीं राममुक्तवान् ॥
'काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम् . १
समुत्क्षिप्येत्यादि - ततो ऽनन्तरं मैथिलीं समुत्क्षिप्य हस्ताभ्यामाकाशे
धृत्वा वह्निर्देहवान् राममुक्तवान् । हे काकुत्स्थ ! साध्वीं पतिव्रतामपि दयितां
असाध्वीति त्वं यदाशङ्किष्यथाः शङ्कितवानसि तत्कथं । गर्हितमेतत् न युक्तमाश-
ङ्कितुमित्यर्थः । '२८००। विभाषा कथमि लिङ् च । ३ । ३।१४३ ।' इति । अत्र कथं-
शब्दो गर्हायां च लिङो निमित्तं । यतस्तत्र गर्हायामित्यनुवर्तते । तस्मिन् लिङ्गनि-
मित्ते क्रियातिपत्तौ लुङ् भविष्यतीत्यधिक्रियते । अन्नासाधुत्वं क्रियायाः तद्विरुद्ध-
साधुत्वाभियोगोपनिपातादतिपत्तिर्गम्यते ॥
तदेव साधुत्वं दर्शयति-
१५६९–ना ऽभविष्यर्दियं शुद्धा यद्येपास्यमहं ततः ॥
न चैनां, पक्षपातों मे धर्मादन्यत्र राघव १ ॥ २ ॥
नेत्यादि — यद्यहमेनां नैवापास्यं नैव रक्षितवान् ततो ऽरक्षणादियं शुद्धा
नाभविष्यद् न भूता । येनैव मया रक्षिता तेनैवेयं शुद्धेति भावः । ' २८१३।
हेतुहेतुमतोर्लिङ् । ३।३।१५६ ।' इत्यतः हेतुर्हेतुमांश्च लिङो निमित्तम् । तत्र पाल -
नस्य परिशुद्धेश्च हेतुहेतुमचे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते नित्यं लुङ् ।
तत्र '२७९८। वोताप्योः । ३ । ३।१४१ ।' इति विकल्पेनाधिक्रियते । अत्रापालनो-
पनिपातादतिपत्तिर्गम्यते । तदतिपाताद्धेतुमतोऽपि पक्षपातात् त्वयैवमाचरित-
मिति चेदाह । हे राघव ! धर्मादन्यत्र अधर्मे न मे पक्षपातो ऽनुरागः ॥