2026-03-05 04:33:19 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः–४६१
मम कृताकृतं युक्तायुक्तं बुध्यस्व अवगच्छ । अत्र प्रार्थनायां लोट् । पूर्वत्र
'२८२६। समुच्चयेऽन्यतरस्याम् । ३ । ४ । ३ ।' इति तस्य च यथायोगं हिस्वादेशः ।
वसन्निति '२८२८। समुच्चये सामान्यवचनस्य । ३ । ४।५।' इत्यनुप्रयोगः । विद्य-
मानादीनां वसतः सामान्यवचनस्यानुप्रयोगात् ॥
एवं पृथिव्यादीनि महाभूतानि कथयित्वा लक्षणमाह-
१५६४-चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम्, ॥
रामस् तुष्यतु मे वाऽद्य, पापां प्लुष्णातु वा ऽनलः॥३४॥
चितामित्यादि -- हे सौमित्रे ? व्यसनस्यास्य मिथ्यादूपणस्य भेषजं प्रति-
क्रियां चितां कुरु । विधौ लोट् । मम अग्नौ विशुद्धाया रामो नियोगतस्तु-
व्यतु । अनलो वा मां पापां नियोगतः झुष्णातु दहतु । दहन् मर्त्यलोकान्मो-
चयत्वित्यर्थः । निमन्त्रणे लोट् । 'लप ग्रुप स्नेहन-मोचन - पूरणेपु' इति ऋयादिः
मोचने द्रष्टव्यः । अनेकार्थत्वाद्दाहे ॥
१५६५ - राघवस्य मतेना ऽथ लक्ष्मणेना ऽऽचितां चिताम् ॥
दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः ॥ ३५ ॥
राघवस्येत्यादि - अथ राघवस्य मंतेनानुज्ञातेन '६२५॥ तस्य च वर्तमाने
२३६७।' इति षष्ठी । '३०८९ । मति- बुद्धि-पूजाऽर्थेभ्यश्च ।३।२।१८८ ' इति
वर्तमाने क्तः । तस्य वा मतेनानुज्ञया चितामाचितां रचितां दृष्ट्वा प्रदक्षिणीकृत्य
सीता रामं प्रगदिता वचो गदितुं प्रवृत्ता ॥
१५६६–प्रवपाणि वपुर् वह्नौ रामा ऽहं शङ्किता त्वया, ॥
सर्वे विदन्तु शृण्वन्तु भवन्तः स - प्लवङ्गमाः ॥ ३६ ॥
प्रवपाणीत्यादि - येन सन्निहिता देवादयः ते सर्वे सप्लवङ्गमाः वानरैः
सह भवन्तः विदन्तु चेतसा । शृण्वन्तु श्रोत्राभ्यां मद्वचनम् । हे राम ! त्वया
दुष्टेति शङ्किता अहं वह्नौ वपुः शरीरं प्रवपाणि नियोगतः प्रक्षिपाणि । निमन्त्रणे
लोट् । '२२३१। आनि लोट् ।८।४।१६।' इति णत्वम् ॥
१५६७-मां दुष्टां ज्वलित-वपु: प्लुषाण वह्ने !
संरक्ष क्षत-मलिनां सुहृद् यथा वा ॥
एषा ऽहं ऋतुषु वसोर् यथा ऽऽज्य-धारा
त्वां प्राप्ता विधि-वदीर्ण-दीप्ति-मालम्. ॥ ३७ ॥
इति भट्टिकाव्ये तिङन्तकाण्डे लोट्-प्रदर्शनो नाम
विंशतितमः सर्गः ॥ २० ॥