2026-03-05 04:33:19 by ambuda-bot
This page has not been fully proofread.
४६० भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे सप्तमो वर्गः,
त्वं पुनीहीत्यादि - हे वायो ! पुनीहि पुनीहीति जगत्रयं पुनः पुनः पुनामि
भृशं वा पुनामीत्यभिप्रायः । त्वं जगत्रयं पुनन् भूतानां देहेषु चरन् मम बुद्धि-
विप्लवं बुद्धेरन्यथात्वं विद्धि अवगच्छ । प्रार्थनायां लोट् । पूर्वत्र '२८२५ । क्रिया-
समभिहारे लोट्-।३।४।२।' इति लोट् । तस्य परस्मैपदसम्बन्धी हिरादेशः ।
क्रियासमभिहारे द्विर्वचनम् । पुनन्निति यथाविध्यनुप्रयोगः । पूर्वस्मिन्नित्यनेन
- पुनातेरनुप्रयोगः । तत्र हि क्रियासमुच्चयाभावात् ॥
१५६० - खमेट, द्यार्मटा ऽटवी॒मित्य॑न्त्यो ऽति-पावनाः ॥
यूयमपो ! विजानीत मनो-वृत्तिं शुभां मम ॥ ३०॥
खमित्यादि - यूयमापोऽतिपावनाः अतिपवित्राः खमट द्यामट उवमट इति
वयमन्तरिक्षमटाम देवलोकमटाम भूर्लोकमटामेत्येवमभिप्रायः । सर्वत्राटन्त्यो मम
शुभां चित्तवृत्तिं विजानीतेति । अत्र प्रार्थनायां लोट् । पूर्वत्र तु आकाशादिकारकभे-
दात् अनेकाटनक्रियासमुच्चयः । ततश्च '२८२६ । समुच्चयेऽन्यतरस्याम् ।३।४।३।
इति लोट् । अटेति समुच्चये सामान्यवचनस्येत्यनुप्रयोगः । आकाशाद्युपगामिनी-
नामटनक्रियाणां पुनरटनक्रियायाः सामान्याया अनुप्रयोगात् ॥
१५६१ - जगन्ति धत्स्व धत्स्वैति दधती त्वं वसुन्धरे ! ॥
अवेहि मम चारित्रं नक्तं दिवम- विच्युतम् ॥३१॥
जगन्तीत्यादि -त्वं वसुन्धरे ! धत्स्व धत्स्वेति अहं पुनः पुनर्दधे भृशं
वा दध इति एवमभिप्राया जगन्ति दधती मम चारित्रं नक्तंदिवमविच्युतं
अस्खलितमवेहि । अत्र प्रार्थनायां लोट् । पूर्वत्र क्रियासमभिहारे तस्य चात्म-
नेपदसम्बन्धिनः स्वादेशः ॥
१५६२ – रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम, ॥
इतहमानस् तिग्मंऽशो ! वृत्तं ज्ञातुं घटस्व मे. ॥३२॥
रसानित्यादि - हे तिग्मांशो ! त्वमपि अहं रसान् भौमान् संहर संहरा-
मीति । दीप्यस्व दीप्ये । ध्वान्तं जहि हन्मि । नभो भ्रम भ्रमामीत्येवम-
भिप्रायः । ईहमानः जगत्यर्थक्रियासु चेष्टमानः । मम वृत्तं चारित्रं ज्ञातुं घटस्व
यतस्व । अत्र प्रार्थनायां लोट् । पूर्वत्र '२८२६। समुच्चयेऽन्यतरस्याम् ।३।४३।'
इति तस्य च यथायोगं हिस्वादेशः । ईहमान इति '२८२८। समुच्चये सामान्य-
वचनस्य ।३।४।५।' इत्यनुप्रयोगः । संहरेत्यादीनामीहतेः सामान्यवचनस्यानु-
प्रयोगात् ॥
.
१५६३ - स्वर्गे विद्यस्व, भुव्याssस्व, भुजङ्ग-निलये भव ॥
एवं वसन् ममा ssकाश! संबुध्यस्व कृताऽकृतम् . ३३
स्वर्ग इत्यादि-त्वं चाकाश ! स्वर्गे विद्यस्व अहं विद्ये । भुवि आस्व
आसे । भुजङ्गनिलये पाताले भव भवामीत्येवमभिप्रायः सर्वत्र । वसन् तिष्ठन्