2026-03-05 04:33:18 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः - ४५९
यथेष्टमित्यादि ——यथेष्टं चर यथेष्टचारिणी भव । विधौ लोट् । तत्र च
यथेष्टं चरन्त्याः पन्थानो मार्गाः शिवा निर्विघ्नाः सन्तु भूयासुः । आशिपि
लोट् । किं च कामाः अभिलाषास्तवान्यत्र तायन्तां स्फीता भवन्तु । अत्रा-
प्याशिपि । यथेष्टचारित्वात्किमयं करिष्यतीति मद्गतां विशङ्कां भयं त्यज त्यक्ष्य -
सि । विधौ लोट् ॥
१५५६ - ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम् ॥
'स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम् . २६
तत इत्यादि - ततस्तद्वचनानन्तरं मैथिलाभिजना सीता नृपं वाक्यं प्रग-
दिता गदितुं प्रवृत्ता । ' ३०५३। आदिकर्मणि क्तः - १३४७११' स्त्रीसामान्येन
स्त्रीति कृत्वा या तव मयि शङ्का इयं सती न वेति सा विमुच्यताम् । मिथ्या-
स्वात् । प्रार्थनायां लोट् ॥
१५५७ - दैवाद् विभीहि काकुत्स्थ !.
जिहीहि त्वं तथा जनात् ॥
मिथ्या माम॑भिसंक्रुध्य-
न-वशां शत्रुणा हृताम् ॥ २७ ॥
दैवादित्यादि-अन्यच्च हे काकुत्स्थ राम ! अवशां पराधीनां शत्रुणा
हृताम् । मिथ्या अभिसंक्रुध्यन् अलीकेन । '५७६। क्रुधद्रुहोरुपसृष्टयोः कर्म
।१।४।३८।' इति कर्मसंज्ञा । दैवात् अनिष्टफलात् बिभीहि भयं जनय भीतो
भव । हेरपित्त्वात्त्त्वेि गुणो न भवति । इतश्च जनादिमं जनं वीक्ष्य जिहीहि
लज्जस्व । ल्यब्लोपे पञ्चमी । विधौ लोट् ॥
त्वय्यसंक्रान्तायां मम कीदृशं भयं लज्जा चेति चेत्तदाह-
१५५८ - चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्, ॥
विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः ॥२८॥
चेतस इत्यादि मे चेतसो वृत्तिरात्मव्यापारः त्वयि तिष्ठति अनन्यमन-
स्कत्वात् । रक्षसा हृताया मम न सर्व हृतं अपि तु शरीरं हृतम् । नैवेदं
मिथ्या । तथाहि हे महाभूताधिष्ठानाः सम्यञ्चः । सर्वत्र वर्तमानाः अञ्चन्तीति
क्विप् । अञ्चतावप्रत्यये '४२१। समः समि ।६।३।१३।' इति सम्यादेशः । एते
मदर्थिताः मम वचः सत्यं विदांकुर्वन्तु अवगच्छन्तु । प्रार्थनायां लोट् । विदां-
कुर्वन्त्विति निपातनम् ॥
प्रत्येकं प्रार्थनामाह-
१५५९-त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्-त्रयम् ॥
चरन् देहेषु भूतानां विद्धि मे बुद्धि-विप्लवम् ॥ २९ ॥