2026-03-05 04:33:18 by ambuda-bot
This page has not been fully proofread.
४५८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे सप्तमो वर्गः,
लज्जानतेत्यादि - लज्जया आनता वियोगदुःखस्य पूर्वानुभूतस्य स्मरणेन
विह्वला साखा दीना सा पत्युरन्तिकं गत्वा सीता रुदितवती ॥
१५५१-प्राप्त- चारित्र्य-सन्देहस् ततस् तामुक्तवान् नृपः ॥
इच्छा मे- 'ना ssददे सीते ! त्वामहं गम्यताम॑तः ' . २१
प्राप्तेत्यादि - ततोऽनन्तरं नृपो रामः 'रावणः किमस्यां खण्डितचारित्र-
शीलो न वा' इति प्राप्तचारित्र्यसन्देहस्तामुक्तवान् । किमित्याह — हे सीते !
ममेयमिच्छा यत्त्वामहं नाददे न गृह्णामि । '२८१४। इच्छार्थेषु लिङ्लोटी
।३।३।१५७।' इति लोट् । अतोऽनिच्छातः कारणाद्यथेष्टं गम्यताम् ॥
किमिति नेच्छति चेदाह -
१५५२ - रावणाऽङ्क-परिश्लिष्टा त्वं हृल्-लेख-करी मम ॥
मतिं बधान सुग्रीवे, राक्षसेन्द्रं गृहाण वा ॥ २२॥
रावणेत्यादि - रावणांङ्कपरिश्लिष्टा हरणसमये रावणोत्सङ्गे स्थिता सती
परिश्लिष्टा परिमृदितवती त्वं मम हृल्लेखकरी चेतः पीडनशीला । '२९३४॥ कृञो
हेतुताच्छील्य- ।३।२।२०।' इति टः । '९८८ हृदयस्य हृलेखयदण्लास - ।६।३।५०१ '
इति हृदादेशः । कमहं शरणं यास्यामीति चेदाह - सुग्रीवे मतिं वधान वनीयाः
उत्पादय राक्षसेन्द्रं विभीषणं वा अनुगृहाण स्वीकुरु ॥
१५५३ - अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा ॥
,
कामाद् वा याहि, मुच्यन्तामा॑शा राम - निबन्धनाः २३
अशानेत्यादि - भरताद्वा भोगानशान भुङ्क्ष्व । सर्वत्र '२५५७ । हलः
श्नः शानज्झौ । ३।१।८३।' इति शानच् । लक्ष्मणं प्रवृणीष्व वा अङ्गीकुरु ।
'वृन् वरणे' इत्यस्य रूपम् । '२५५८ । प्वादीनां ह्रस्वः । ७।३।८०।' । स्वेच्छया
वा याहि भवत्यै यत्र रोचते तत्र गम्यताम् । रामनिबन्धनाः पुनरपि रामो मे
पतिर्भूयादित्याशाः मुच्यन्तां त्यज्यन्ताम् ॥
किमिति चेदाह—
१५५४ - क्व च ख्यातो रघोर् वंशः, क्व त्वं पर-गृहोषिता ॥
अन्यस्मै हृदयं देहि, ना नभीष्टे घटामहे ॥ २४॥
क चेत्यादि - परिशुद्धत्वात्सर्वत्र ख्यातः लोके विदितो रघोवंशः क्व । क
च त्वं परगृहोपिता जातकलङ्कत्वात् । द्वयमप्येतद्दूरं भिन्नम् । सर्वत्र विधौ
लोट् । अतोऽन्यस्मै हृदयं देहि चित्तं परमै देहि । वयं अनभिमते विषये न
घटामहे । निमन्त्रणे लोट् ॥
।
१५५५ - यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः, ॥
कामास् ते ऽन्यत्र तायन्तां, विशङ्कां त्यज मंदु-गताम्.