2026-03-05 04:33:18 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः - ४५७
मुदेत्यादि- - गत्वा च काकुत्स्थं मुदा हर्पेण संयुहि मिश्रय । 'यु मिश्रणे'
तत्र गमनेन स्वयं च संमदं हर्षं प्राप्नुहि '३२४५ ॥ प्रमदसंमदौ हर्पे । ३ । ३।६टा' ।
सर्वत्र प्रार्थनायां लोट् । हे देवि ! अस्मान्मुहूर्तादूध्वं राघवसन्निधिम् । राघवः
सन्निधीयते यस्मिन् प्रदेशे इति '३२७१। कर्मण्यधिकरणे च ।३।३।९३।' इति
किप्रत्ययः । तं त्वमुपेहि गच्छ ॥
१५४७ - ऊर्ध्वं मुहूर्ताद॑ह्नो ऽङ्ग ! स्वामिनी स्म भव क्षितेः ॥
राज - पत्नी - नियोग - स्थर्मनुशाधि पुरी-जनम् ॥ १७ ॥
ऊर्ध्वमित्यादि - तथा मुहूर्तादूर्ध्वं क्षितेः स्वामिनी भव स्म । अङ्गेति
सम्बोधनपदम् । अत्र '२८१९ । स्मे लोट । ३।३।१६५।' इत्यनेन प्रेपे लोट् ।
तत्र हि '२८१७ । प्रैपातिसर्गप्राप्तकालेषु कृत्याश्च । ३।३।१६३ ।' इति और्ध्वमौ -
हूर्तिक इति च वर्तते । प्राप्तकालतायां लोट् । राघवसन्निधिं गन्तुं क्षितेः
स्वामिनी भवितुं प्राप्तकाला देवी । अन्यथा कालातिक्रमे मयि विरक्तेति रामो
विरज्यते । अन्यच्च इयमस्माकमाशंसा । त्वं राजपत्नीनियोगस्थं महादेव्याज्ञा-
करणतत्परं पुरीस्थमयोध्यावस्थितं जनं अनुशाधि विधेयीकुरु । आशिपि लोट् ।
'२४८७। शा हौ । ६।४।३५ ।' इति शादेशः । तस्य समानाश्रयत्वादसिद्धत्वे
'२४२५। हु-झलभ्यो हेर्धिः । ६।४।१०१' ॥
१५४८ - उत्तिष्ठस्व मते पत्युर, यतस्वा ऽलङ्कृतौ तथा ॥
प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं मही- पतिम् ॥१८॥ '
उत्तिष्ठस्वेत्यादि - तस्मात्प्रार्थयेऽहं पत्युर्मते अभिप्राये मत्समीपमागन्त-
व्यमिति उत्तिष्ठस्व तदर्थं घटस्व । ' २६९१। उदोऽनूर्ध्वकर्मणि । १।३।२४।' इति
तङ् । तथा अलङ्कृतौ अलङ्करणे यतस्व यत्नं कुरु । लज्जया कदाचिन्नोत्सहेतेति
पुनःपुनरभिधानं अविरुद्धम् । यथा नाहीत्यादि भूपयाङ्गमिति मन्यते तेन
वारद्वयमुक्तमेवं अलङ्कृत्य त्वं महीपतिं द्रष्टव्यं दर्शनार्हम् । '२८२२ । अर्हे कृत्य-
तृचश्च ।३।३।१६९।' इति अवश्यद्रष्टव्ये वा आवश्यके '३३१२ । कृत्याश्च
।३।३।१७१।' इति द्रष्टुं प्रतिष्ठस्व गच्छ । प्रार्थनायां लोट् । '२६८९ । समव-
प्रविभ्यः स्थः । १।३।२२।' इति तङ् ॥
१५४९- अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा ॥
समारूढवती यानं पट्टांशुक-वृताऽऽनना ॥ १९॥
अनुष्ठायेत्यादि - श्लोकत्रयं एवमुक्ता भर्तुर्यथोद्दिष्टं नियोगं स्नानादिकम-
नुष्ठाय कृत्वा जनकात्मजा मां कश्चिन्माद्राक्षीदिति पट्टांशुकवृतानना यानं शिबि-
कामारूढवती पत्युरन्तिकं च गत्वा यानादवतीर्येत्यर्थात् ॥
१५५०-लजाऽऽनता विसंयोग-दुःख- स्मरण - विह्वला ॥
साऽस्रा गत्वा ऽन्तिकं पत्युर् दीना रुदितवत्यसौ. २०
३९
।