2026-03-05 04:33:18 by ambuda-bot
This page has not been fully proofread.
४५६ भट्टिकाव्ये—चतुर्थे तिङन्तकाण्डे लक्षण-रूपे सप्तमो वर्गः,
।
गोरेतानि गव्यानि । सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत् । पञ्चगव्यानि समाहृता-
नीतिपात्रादिदर्शनान्न ङीप् । ततः पवित्रीकृतकाया, सन्दीप्ते पावके हविर्जुहुधि ।
ततः स्वामिनं गन्तुमनुष्टितदेवकार्या सती त्वमालिम्प समालभस्व । ततो निव-
स्स्व आच्छादय । '१०९२। वस आच्छादने' अदादित्वाच्छपो लुक् । धातुस-
कारस्य परगमनम् । ततो धूपाय धूपितमात्मानं कुरु । धूपेरायप्रत्ययः । आवि-
ध्य च त्रजं मालां शिरस्याक्षिप । '१२५७॥ व्यध ताडने' श्यनि '२४१२। ग्रहि
ज्या–।६।१।१६।' इत्यादिना सम्प्रसारणम् । रत्नान्यामुञ्च विन्यस्येत्ययमर्थवशात्
क्रियाक्रमो द्रष्टव्यः । यथा देवदत्तं भोजय स्त्रापय उद्वर्तयेति । किं च संरोधजं
तमः अस्वतन्त्रीकरणजं शोकं छिन्धि अपनय । हैमीं शिबिकां सौवर्णयानमारोह
अधितिष्ठ । सर्वत्र भर्तुर्नियोगकरणे लोट् । तामारूढा द्विपां मनोरथान् हृढ़ये
स्थितानभिप्रायान् जहि नाशय । हौ परतो '२४३१ । हन्तेर्जः । ६।४।३६।' ॥
१५४३ - तृणेढु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम्, ॥
भवताधियुक्ता त्वम॑त ऊर्ध्वं स्व- वेश्मनि ॥ १३॥
तृणेदित्यादि — गतायां त्वयि राजन्यानां क्षत्रियाणां पती रामः शुचं शोकं
त्वद्वियोगोत्थां त्वद्वियोगप्रभवाम् । '२९१६ । सुपि स्थः । ३।२।४।' इति कः ।
'उदःस्थास्तम्भोः पूर्वस्य' इति पूर्वसवर्णः । तृणेदु हिनस्तु । अतः अस्मात्काला-
दूर्ध्वं कालं स्ववेश्मनि अयोध्यायां अधियुक्ता त्वं भवतात् भूयाः । ' २१९७
तुह्यो :- ।७।१।३५।' इति तात ॥
१५४४ - दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे ॥
दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्. ॥१४॥
दीक्षस्वेत्यादि - तुरगाध्वरे अश्वमेधे रामेण सह त्वरितं दीक्षस्व दीक्षिता
भूयाः । आशिषि लोट् । प्रीतेन पत्या दृश्यस्व दृष्टा भव । इहापि कर्मणि लोट् ।
प्रीता च सती राघवं त्वं प्रेक्षस्व ॥
१५४५ - अयं नियोगः पत्युस् ते, कार्या नाऽत्र विचारणा, ॥
भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च ॥ १५ ॥
अयमित्यादि - तव पत्युरयं नियोगः यत्कृतः स्नानादिव्यापारः । अत्र
वस्तुनि विचारणा न कार्या किमेवं न वेति । एतत्प्रमाणं चेत् भूपयाङ्गं स्नानादि-
पूर्वकमलङ्कुरु । रामं गन्तुं यतस्व ॥
१५४६ - मुदा संयुहि काकुत्स्थ,
स्वयं चा ऽऽनुहि सम्पदम् ॥
उपेह्यूर्ध्वं मुहूर्तात् त्वं
देवि ! राघव-सन्निधिम् ॥ १६ ॥