This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः - ४५५
 
त्वा त्वां पश्यतु । सर्वत्र प्रार्थनायां लोट् । स पवनात्मजस्तथेति यथाज्ञापय-.
सीति प्रतिज्ञाय स्वीकृत्य गत्वा राघवमुक्तवान् ॥
 
किमित्याह-
 
१५३८ - 'उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल- नन्दन ! ॥
 
क्ष्मां लिखित्वा विनिश्वस्य स्वराssलोक्य विभीषणम्
उत्सुकेत्यादि - हे काकुत्स्थकुलनन्दन ! उत्सुका देवी आनीयतामिति ।
प्रार्थनायां कर्मणि लोट् । एवमुक्ते रावणवधे महति प्रयासेऽकृतेऽपि जनवाद-
भयात् न तया सह वासः कार्य इत्यभिप्रायेण । राघवः क्ष्मामङ्गुष्ठेन लिखित्वा
'विनिश्वस्य स्वरालोक्य आकाशं दृष्ट्वा । स्वरित्यव्ययम् । विभीपणमुक्तवानिति
वक्ष्यमाणेन सम्बन्धः ॥
 
१५३९–उक्तवान् राघवः - ' सीतामा॑नया ऽलंकृतामिति ' ॥
 
गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः ॥ ९ ॥
उक्तवानित्यादि - सीतामलंकृतामानयेति राघव उक्तवान् । विधौ लोट् ।
तेन विभीपणेन गत्वा प्रणम्य च मैथिल्युक्ता मधुरं वचः ॥
 
१५४० - 'जहीहि शोकं वैदेहि ! प्रीतये धेहि मानसम् ॥
 
रावणे जहिहि द्वेषं, जहाहि प्रमदा-वनम्. ॥ १०॥
 
जहीहीत्यादि - शोकं पतिवियोगजं जहीहि । '२४९८। जहातेश्च ।६।४।११६।'
इत्यन्यतरस्यामित्वमीत्वं च । '२४९९। आच हौ । ६।४।११७।' इत्याकार इति
रूपन्रयम् । प्रीतये प्रीत्यर्थं पुनर्मानसं वेहि घटयस्व । ' २४७१। व्वसोरेद्धावभ्या-
सलोपश्च ।६।४।११९।' । रावणे रावणविषये द्वेपं जहिहि तस्य विनष्टत्वात् ।
प्रमदावनं अशोकवनिकां जहाहि । पत्युरन्तिकं याहीत्यर्थः । सर्वत्र विधौ लोट् ॥
१५४१ - स्नानलिम्प धूपाय,
 
निवरस्वाऽऽविध्य च स्रजम् ॥
रत्नान्याssमुञ्च, संदीप्ते
 
हविर् जुहुधि पावके, ॥ ११ ॥
 
१५४२ - अद्धि त्वं पञ्च-गव्यं च,
 
छिन्धि संरोध- जं तमः, ॥
 
आरोह शिविकां हैमीं,
 
द्विषां जहि मनो- रथान्. ॥ १२ ॥ -
 
स्नाहीत्यादि – लोकद्वयं मिश्रेण व्याख्यातम् । स्नाहि स्नानं कुरु । ततः कायशु-
द्ध्यर्थं सदनुपहतं पञ्चगव्यमद्धि भक्षय । '२४२५ । हु-झेलभ्यो हेर्धिः । ६।४।१०१॥'