This page has not been fully proofread.

४५४ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे सप्तमो वर्गः,
 
अत्र विधौ कर्मणि लोट् । तस्मादेतासु मत्सरं गृहाण जनय । प्रार्थनायां लोट् ।
येन गृहीतक्रोधा मामनुज्ञास्यसि ॥
 
१५३३ – तृणहानि दुराऽऽचारा घोर रूपाऽऽशय-क्रियाः, ॥
 
हिंस्रा भवतु ते बुद्धिरेतासु, कुरु निष्ठुरम् ॥३॥
तृणहानीत्यादि - एता दुराचाराः घोररूपाशयक्रियाः क्रूराणि आकारा-
भिप्रायानुष्ठानानि यासां तास्तृणहानि हनिष्यामि । तदेतासु हिंसा हिंसनशी-
ला तव बुद्धिर्भवतु । निष्ठुरं च नैष्टुयं कुरु । भावप्रधानो निर्देशः ॥
१५३४–पश्चिमं करवामैतत् प्रियं देवि ! वयं तव, ॥'
 
ततः प्रोक्तवती सीता वानरं करुणाऽऽशया ॥ ४ ॥
पश्चिममित्यादि — हे देवि ! किमत्र विचारितेन तव पश्चिममन्त्यं प्रियं
एतद्वयं करवाम करिष्यामः । अस्मद एकत्वे बहुवचनमन्यतरस्याम् । ततोऽन-
न्तरं सीता करुणाशया सती वानरं प्रोक्तवती ॥
 
१५३५ – 'उपशाम्यतु, ते बुद्धिः पिण्ड - निर्वेश - कारिषु ॥
 
लघु-सत्वेषु, दोषोऽयं यत्- कृतो. निहतो ऽसकौ ॥५॥
उपेत्यादि - लघुसत्वेषु स्त्रीजनेषु पिण्डनिर्वेशकारिषु पिण्डस्य प्रासस्य नि-
वैशो निष्क्रयः तत्कारिषु ते बुद्धिरुपशाम्यतु सकरुणा भवतु । सर्वत्र विधौ लोट् ।
किमिति चेत् यत्कृतो यज्जनितोऽयं दोषः ममैताभिः कृतः । असकौ असौ राव-
णो निहतो व्यापादितः । कुत्सायाम् '२०२६। अव्ययसर्वनाम्नामकच् प्राकू टेः
।५।३।७१।' इति अकच् ॥
 
१५३६- न हि प्रेष्य-वधं घोरं करवाण्युस्तु ते मतिः, ॥
 
एधि कार्य-करस् त्वं मे, गत्वा प्रवद राघवम्. ॥६॥
नहीत्यादि - अन्यच्च न हि नैव घोरं प्रेष्यवधं करवाणि करिष्यामीतीत्थम्
मतिस्तवाप्यस्तु । '२१९५। आशिषि लिङ्लोटौ । ३ । ३।१७३ ।' इति लोट् । अत-
स्त्वं कार्यकरः कार्यकरणे अनुकूलः । आनुलोम्ये टः । एधि भव । '२४६९।
असोरल्लोपः ।६।४।१११।' । '२४७१। घ्वसोरेद्धावभ्यासलोपश्च । ६।४।११९ ।' ।
एत्वस्य समानाश्रयत्वादसिद्धत्वे ' २४२५। हुझलभ्यो हेर्धिः । ६।४।१०११' कार्य-
माह । गत्वा प्रवद राघवं ममादेशाद् ब्रूहि ॥
 
किं मया वक्तव्यमिति चेत्तदाह-
 
१५३७–'दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्'.
 
तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान् ॥ ७ ॥
. दिदृक्षुरित्यादि - हे राम ! द्रष्टुमिच्छुमैथिली सीता अविलम्बितं दुतं