2026-03-05 04:33:17 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः - ४५३
१५३०–मन्युं वध्या भट-बंध- कृतं वाल-वृद्धस्य राजन् !,
शास्त्रऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः,
संरंसीष्ठाः सुर-मुनि-गते वर्त्मनि प्राज्य- धर्मे,
संभुत्सीष्ठाः सु-नय-नयनैर् विद्विपामीहितानि ' ३०
इति भट्टिकाव्ये तिङन्तकाण्डे लिङ्-विलसितो
नामैकोनविंशतितमः सर्गः ॥
मन्युमित्यादि - अन्यच्च हे राजन् ! बालानां वृद्धानां च । सर्वो द्वन्द्वो विभा-
पैकवद्भवतीति वालाश्च वृद्धाश्च बालवृद्धम् । तस्य मन्युं शोकम् । भटवधकृतं
भटानां पितृपुत्रादीनां च यो वधः तत्कृतम् । वध्याः प्रियवचनार्थप्रदानादि-
भिरपनेष्यसि । शास्त्रार्थज्ञाः शास्त्रार्थकुशलाः ते तव सदसि सभायां सन्निधिं
क्रियासुः सन्निहिता भवन्त्वित्यर्थः । सुरैर्मुनिभिश्च गते सेविते वर्त्मनि मार्गे
प्राज्यधर्मे भूरिपुण्ये संरंसीष्ठाः रंस्यसे । द्विपां शत्रूणां ईहितानि चेष्टितानि सुन-
यनयनैः शोभनाः ये नयाः तैरेव नयनैश्चक्षुर्भिरिवावस्थितैः सम्भुत्सीष्ठाः जानी-
याः ज्ञास्यसि । 'बुध अवगमने' एकाचो वशो भप् ॥
इति श्री -
जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये-
चतुर्थे तिङन्तकाण्डे लक्षण-रूपे पष्ठः परिच्छेदः (वर्गः ),
तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको' नाम
एकोनविंशतितमः सर्गः ॥ १९ ॥
विंशः सर्गः ।
इतः प्रभृति लोटमधिकृत्य तद्विलसितमाह -- तत्र 'लोट् च' इति वचना-
द्विध्यादिष्वर्थेषु लोट् । ततोऽन्यत्रापि दर्शयिष्यति —
१५३१ - समुपेत्य ततः सीतार्मुक्तवान् पवना॒ऽऽत्मजः ॥
दिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः ॥१॥
समुपेत्येत्यादि - ततोऽनन्तरं पवनात्मजः रामाज्ञया सीतां समुपेत्य
समुपागम्योक्तवान् । हे वैदेहि ! रावणस्त्रैलोक्यस्य प्रतोदकत्वात् कण्टको हतस्तेन
दिया प्रियवचनेन वर्धस्व नियोगतो वर्त्यसीति । निमन्त्रणे लोट् ॥
१५३२ – अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः ॥
5
. रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम् ॥२॥
अनुजानीहीत्यादि - अनुजानीहि अनुज्ञां प्रयच्छ । प्रार्थनायां लोट्। येन
मयैता राक्षस्यस्तव रक्षिकाः क्षुद्रमानसाः पापाशयाः हन्यन्तां विनाश्यन्ताम् ।