2026-03-05 04:33:17 by ambuda-bot
This page has not been fully proofread.
४५२ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे षष्टो वर्गः,
लिङ् । इच्छार्थस्य धातोरुपपदत्वात् । यतः सर्व एव सुहृत् सुहृदं वृद्धिसंस्थं
उदयस्थमिच्छेत् इच्छति । '२८१६ । इच्छार्थेभ्यो विभाषा वर्तमाने । ३।३।१६०।'
इति लिङ् ॥
१५२६ - वर्धिषीष्ठाः स्व- जातेषु,
वध्यास् त्वं रिपु-संहतीः, ॥
भूयास् त्वं गुणिनां मान्यस्,
तेषां स्थेया व्यवस्थितौ ॥ २६ ॥
वर्धिषीष्ठा इत्यादि - स्वजातेषु स्वजातिषु राक्षसेपु मध्ये त्वं वर्धिषीष्ठाः
वृद्धिमान् भविष्यसि । आशिषि लिङ् । एवं वक्ष्यमाणेष्वपि सर्वत्र । रिपुसंहती:
शत्रुसमूहान् वध्याः विनाशयिष्यसि । '२४३३ । हनो वध लिङि । २।४।४२
भूयाश्च गुणिनां मान्यः । श्रुतशीलवतां मानार्हश्च भविष्यसि । तेषां च गुणिनां
व्यवस्थायां चिरकालं स्थेयाः स्थास्यसि ॥
१५२७ - धेयास् त्वं सुहृदां प्रीतिं,
वन्दिषीष्ठा दिवौकसः, ॥
सोमं पेयाश्च, हेयाश् च
हिंस्रा हानि - करीः क्रियाः ॥ २७ ॥
धेया इत्यादि -त्वं सुहृदां प्रीतिं धेयाः जनयिष्यसि । दिवौकसो देवान्व-
न्दिपीष्टाः प्रणंस्यति । सोमं पेयाः पास्यसि । तथा हिंस्राः परोपघातिकाः हानि-
करीः अपचयहेतुकाः क्रियाः हेयाः त्यक्ष्यसि ॥
· १५२८–अवसेयाश् च कार्याणि धर्मेण पुर-वासिनाम्, ॥
अनुरागं क्रिया राजन् ? सदा सर्व-गतं जने ॥२८॥
अवसेया इत्यादि - पुनः पुरवासिनां पौराणां कार्याणि धर्मेणावसेयाः
समाप्स्यसि । '१२२२। षोऽन्तकर्मणि' । हे राजन् ! अत्र जने अनुरागं सर्वगतं
सर्वव्यापिनं क्रियाः करिष्यसि ॥
१५२९ - घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः, ॥
रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते. २९
घानिषीष्टेत्यादि - मन्युः क्रोधः त्वया घानिषीष्ट हनिष्यते । चिण्वद्भावो
वृद्धिर्घत्वं च । समुन्नतिरभ्युच्चयः प्राहिषीष्ट ग्रहीष्यते । रक्षोभिदर्शनपरैर्देर्शिषी-
ष्टाः त्वं द्रक्ष्यसे । ते च राक्षसाः भवता दर्शनपरेण च द्रक्षीरन् । अचिण्व-
द्भावपक्षः ॥