This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको 'नामैकोनविंशतितमः सर्गः४५१
१५२१- स भवान् भ्रातृ-वद् रक्षेद् यथावदखिलं जनम्, ॥
 
न भवान् संप्रमुह्येच् चेदा॑श्वस्युश् च निशाचराः, २१'
स इत्यादि - चेद्यदि भवान्न सम्प्रमुह्येत् मोहं न गच्छेत् तदा स भवान्
भ्रातृवत् यथा भ्रात्रा जनो रक्ष्यते तद्वत् अखिलं जनं यथावत् सम्यक् रक्षेत् ।
एते च निशाचरा आश्वस्युराश्वासं गच्छेयुः । '२८१३ । हेतुहेतुमतोर्लिङ् ।३।३।
१५६॥' अत्र प्रमोहो हेतुः जनरक्षणं निशाचराश्वासनं च हेतुमत् । श्वसेरदादि-
त्वाच्छपो लुक् । आश्वसेयुरिति पाठान्तरम् ॥
 
१५२२–ततः स गतवान् कर्तुं भ्रातुरग्नि-जल - क्रियाम् ॥
 
प्रोक्तवान् कृत-कर्तव्यं वचो रामोऽथ राक्षसम् . २२
तत इत्यादि - ततो वचनानन्तरं भ्रातुरग्निक्रियां जलक्रियां च कर्तुं गतवा-
नू । अथ कृतकर्तव्यं राक्षसं रामः वचः प्रोक्तवान् ॥
 
१५२३-अम्भांसि रुक्म- कुम्भेन
 
सिञ्चन् मूर्ध्नि समाधिमान् - ॥
'त्वं राजा रक्षसां लङ्का-
 
मवेक्षेथा विभीषण ? ॥ २३ ॥
 
अम्भांसीत्यादि - रुक्मकुम्भेन स्वर्णकलशेनाम्भांति जलानि मूर्ध्नि सिञ्चन्
पातयन् । रामः प्रोक्तवानिति पूर्वेणान्वयः । हे विभीषण ! ( समाधिमान् ध्या-
नवान् ) त्वमद्यप्रभृति रक्षसां राजा लङ्कामवेक्षेथाः कार्याकार्यनिरूपणेन द्र-
क्ष्यसि ॥
 
१५२४ – क्रुद्धान॑नुनयेः सम्यक्,
धनैर्लुब्धानुपार्जयेः,
 
मानिनो मानयेः काले,
 
त्रस्तान् पौलस्त्य ! सान्त्वयेः ॥ २४ ॥
 
क्रुद्धानित्यादि - हे पौलस्त्य ! क्रुद्धाननुनयेः प्रसादयिष्यसि । ये लुब्धा-
स्तान् धनेनोपार्जयेः दानेन गृहीष्यसि । मानिनः सत्कारोचिते काले मानयेः
पूजयिष्यसि । त्रस्तान् भीतान् सान्त्वयेः समाश्वासयिष्यसि । सर्वत्र निमन्त्रणे
नियोगकरणे प्रार्थनायां वा लिङ् ॥
 
१५२५ - इच्छा मे परमा, ऽऽनन्देः कथं त्वं वृत्र- शत्रु-वत् ॥
 
इच्छेद्धिं सुहृदं सर्वो वृद्धि-संस्थं यतः सुहृत्. ॥२५॥
इच्छेत्यादि - इयं च मे इच्छा महती । यत्त्वं वृत्रशत्रुवदिन्द्र इव कथमा-
नन्देः सुदितो भविष्यसि । '२८१४ । इच्छार्थेषु लिङ्लोटौ । ३।३।१५७१' इति