This page has not been fully proofread.

.
 
४५० भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे षष्टो वर्गः,
 
वान्यस्य-।६।४।६८।' इत्येत्वं न विकल्प्यते । यस्मात् पण्डितो जनः पृथग्जनवत्
अपण्डितवत् जातु कदाचिदपि न प्रमुह्येत् न मोहं यातीति सम्भावयामः ।
• ८२८०४] जातुयदोर्लिङ् । ३ । ३ । १४७।' इत्यनवक्लृप्तौ लिङ् ॥
 
१५१८–यच्च यत्र भवांस् तिष्ठेत्,
तत्राऽन्यो रावणस्य न, ॥
यच्च यत्र भवान् सीदेन
 
महद्भिस् तद् विगर्हितम् ॥ १८ ॥
 
यच्चेत्यादि - यन्त्र देशे काले वा भवांस्तिष्ठेत् तत्र यच्च अन्यो रावणस्य
कस्तिष्ठेत् अवस्थानं कः करिष्यति । नैतत्सम्भावयामः तस्य तत्र न्यूनत्वात् ।
अन्यस्मिन्नवक्लृप्तिः यच्छंच्देनोपपदेन योगात् '२८०५ ॥ यच्चयत्रयोः । ३।३।१४८ '
इत्यनवक्लृप्तौ भविष्यति लिए । यच्चेति निपातसमुदायो यच्छन्दस्यार्थे वर्तते ।
किं च यन्त्र देशे काले वा यच्च भवान् सीदेत अवसादं करोतीति महद्भिः
पण्डितैः विगर्हितं निन्दितम् । गर्हयां चेति सर्वलकाराणामपवादो लिङ् ।
'यञ्चयत्रयोः' इत्यनुवर्तते । अनवकृताविति निवृत्तम् ॥
१५१९-आश्चर्यं, यच्च यत्र त्वां
प्रब्रूयाम वयं हितम्, ॥
अपि साक्षात् प्रशिष्यास् त्वं
कृच्छ्रेष्विन्द्र- पुरोहितम् ॥ १९ ॥
 
आश्चर्यमित्यादि - यत्र देशे काले वा यच्च यद्वयमपि त्वां हितं प्रब्रूयाम
तदाश्चर्य विचित्रमेतत् । '२८०७ । चित्रीकरणे च ।३।३।१५० ।' इति लिङ् ।
'२८०५। यच्चयत्रयोः ।३।३।१४८।' इति वर्तते । त्वामित्यकथितं कर्म । अतस्त्वं
कृच्छ्रेषु व्यसनेषु साक्षादिन्द्रपुरोहितं बृहस्पतिं प्रशिष्याः बाढं शिक्षयसि ।
'२८०९। उताप्योः समर्थयोर्लिङ् ।३।३।१५२।' अपिशब्दस्योपपदत्वात् समर्थत्वं
चानयोर्बाढमित्येतस्मिन् अर्थे । '२४८६ । शास इदङ् हलोः । ६।४।३४॥ '२४१०।
शासि - वसि - ।८।३।६०।' इत्यादिना पत्वम् ॥
 
१५२०–कामो जनस्य–'जह्यास् त्वं प्रमादं नैर्ऋता॒ऽधिप !' ॥
 
उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः॥२०॥
 
काम इत्यादि—हे नैर्ऋताधिप रक्षसां नाथ ! त्वं प्रमादं जह्याः त्यज ।
अस्य जनस्य पौरस्य काम इच्छा । २८१०। कामप्रवेदनेऽकञ्चिति । ३ । ३।१५३।'
इंति लिङ् । कच्चिच्छब्दस्याप्रयोगात् । कामप्रवेदनं च जनाभिप्रायप्रकाशनम् ।
अन्यञ्च अस्मिन् विप्लवे विनाशे द्विषः शत्रवोऽपि उत अनुशोचेयुः अनुशोचन्ति
किमु बान्धवाः । '२८०९। उताप्योः समर्थयोर्लिङ् । ३।३।१५२।' ॥