This page has not been fully proofread.

तथा लक्ष्य रूप कथानके 'विभीषणाभिषेको' नामैकोनविंशतितमः सर्गः ४४९
१५१३ - यज्ञ-पात्राणि गात्रेषु चिनुयाच् च यथा-विधि, ॥
 
जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगाः.' १३
 
यज्ञपात्राणीत्यादि —सं एव यथाविधि यथाक्रमं यज्ञस्य पात्राणि स्रुगा-
दीनि गात्रेषु विचिनुयात् । हविराज्यं वह्नौ जुहुयात् । सामगाः छन्दोगाः साम
च गायेयुः । सर्वत्र विधौ लिङ् ॥
 
१५१४ - गत्वा ऽथ ते पुरीं लङ्कां
कृत्वा सर्वं यथदितम् ॥
समीपेऽन्त्या॒ऽऽहुतेः सा॒ऽस्राः
प्रोक्तवन्तो विभीषणम् - ॥ १४ ॥
 
गत्वेत्यादि - अथानन्तरं ते मन्त्रिणः लङ्कां गत्वा यथोदितं च कृत्वा ।
अन्त्याहुतेर्मृताहुतेः अनन्तरं सास्त्राः सबाप्पाः विभीषणं प्रोक्तवन्तः ॥
१५१५ - ' कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्नि-जल-क्रियाम् ॥
 
.
 
प्रयतेथा महाराज ! सह सर्वैः स्व- वन्धुभिः ॥ १५॥
 
-
 
कृतमित्यादि — यथोद्दिष्टं यथाविहितं सर्वमस्माभिः कृतं । त्वमिदानीं भ्रातुर्ब-
ह्रिक्रियां जलक्रियां च कर्तुं स्ववन्धुभिः सर्वैः सह प्रयतेथाः । प्रार्थनायां लिङ् ॥
१५१६- अज्ञ-वन् नौत्सहेथास् त्वं,
 
धेया धीर - त्वम- च्युतम् ॥
 
स्थेयाः कार्येषु वन्धूनां,
 
हेयाः शोकोद्भवं तमः. ॥ १६ ॥
 
अज्ञवदित्यादि - शोकादप्रवर्तमानं पुनराहुः । अज्ञवत् किं नोत्सहेथाः
किमवसीदसि गर्हितमेतत् । '२८०१ । किं वृत्ते लिङ्लृटौ ।३।३।१४४।' इति
गर्हायां लिङ् । इयं चास्माकमाशंसा । यत्तु धीरत्वं धैयं अच्युतं [ अक्षतं ]
धेयाः धास्यसि । बन्धूनां च कार्ये स्थेयाः स्थास्यसि । शोकोद्भवं च तमो हेया-
स्त्यक्ष्यसि । सर्वत्रांशिपि लिङ् । आर्धधातुकत्वात् । '२३७४ । एर्लिङि ।६।४।६७ '
इत्यसंयोगादेरेत्वम् ॥
 
१५१७- नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवान॑पि ॥
 
न पृथगू-जन-वज् जातु प्रमुह्येत् पण्डितों जनः. १७
नावकल्प्यमित्यादि - अन्यच्च नावकल्प्यमिदं न सम्भाव्यमेतत् येन कृच्छ्रेषु
दुःखेषु भवानपि ग्लायेत् ग्लानिं याति । अनवक्कॢसौ. असम्भावनायां '२८०२।
अनवक्लृत्यमर्षयोः-।३।३।१४५ ।' इत्यादिना लिङ् । सार्वधातुकत्वात् '२३७८