This page has not been fully proofread.

४४८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे षष्टो वर्गः,
 
आददीध्वमित्यादि - तत्र राजवेश्मनि वासांसि महार्हाणि महामूल्यानि
सत्वरा आददीध्वं गृह्णीत । '२४८३ । श्राभ्यस्तयोरातः । ६।४।११२ । इत्याकार--
लोपः । सत्केतून् शोभनध्वजान् उडुनीयात ऊर्ध्वकरिष्यथ । '२५५८। प्वादीनां
ह्रस्वः ।७।३।८०।' '२४९७ । ई हल्यघोः । ६।४।११३ ।' अग्र्यचन्दनं सच्चन्दनका-
ष्ठानि निर्हरेत निर्गमयत ॥
 
१५०९ - मुश्चेताऽऽकाश-धूपांश्च, ग्रश्नीयात स्रजः शुभाः, ॥
 
आनयेता ऽमितं दारु कर्पूरा॒ऽगुरु-कुङ्कुमम्. ॥ ९॥
मुञ्चेतेत्यादि — धूपघटिकाभिराकाशधूपांश्च मुञ्चेत प्रवर्तयेत् । त्रजः पुष्प-
मालाः शुभाः ग्रनीयात गुम्फिष्यथ । ' १६१० । श्रन्थ ग्रन्थ सन्दर्भे' इति
क्र्यादिः । दारु काष्टं अमितं प्रभूतं कर्पूरागुरुकुङ्कुमं च आनयेत । सर्वत्र विधौ
लिङ् । पुषादिप्रयोगश्च ॥
१५१०—–उह्येरन् यज्ञ-पात्राणि,
हियेत च विभावसुः ॥
 
भ्रियेत चाऽऽज्यमृत्विग्भिः,
 
कल्प्येत च समित् - कुशम्. ॥ १० ॥
 
उद्येरन्नित्यादि - यज्ञपात्राणि स्रुगादीनि उह्येरन् आनीयन्ताम् । विभाव-
सुश्चाग्निः ह्रियेत । ऋत्विग्भिः आज्यमपि भ्रियेत । समित्कुशं कल्प्येत च क-
ल्प्यम् । सर्वत्र विधौ कर्मणि लिङ् ॥
 
१५११ – स्नानीयैः स्नापयेताऽऽशु, रम्यैर लिम्पेत वर्णकैः ॥
 
अलङ्कर्यात रतैश्च॑ रावणऽर्थैर् दशऽऽननम् ॥११॥
 
स्नानोयैरित्यादि - यथा स्वविहितं च कृत्वा रम्यैः स्नानीयैर्दशाननं राक्ष-
साधिपं स्नापयेत स्नापयिष्यथ । 'ग्लास्नावनुवमां च' इति विकल्पेन मित्वम् ।
तत्र 'ज्वल-ह्वल-नमामनुपसर्गाद्वा' इति वाग्रहणमनुवर्तते । वर्णकैश्चन्दनादिभिः
रम्यैर्लिम्पेत विलेप्स्यथ । रतैश्च रावणार्हेर्नित्यनैमित्तिकैरलंकुर्यात अलंकरिष्यथ ॥
 

 
१५१२ - वासयेत सु-वासोभ्यां
 
मेध्याभ्यां राक्षसाऽऽधिपम्, ॥
ऋत्विक् स्रग्विणमा॑दध्यात्
 
प्राङ् - मूर्धानं मृगाजिने ॥ १२ ॥
 
वासयेतेत्यादि - सुवासोभ्यां मेध्याभ्यां पूताभ्यां वासयेत च आच्छाद-
यिष्यथ । ऋत्विक् यज्वा स्त्रग्विणं कृत्वा मालाभूषितं कृत्वा मृगाजिने प्राङ्मू..
धनं प्राच्यां मूर्धा यस्य पूर्वशिरसमादध्यात् स्थापयेत्
 
"