This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'विभीषणाभिषेको' नामैकोनविंशतितमः सर्गः ४४७
 
दिना टेरयादेशः। द्विषतां च गणाः न्यञ्चन्तः नीचैरञ्चन्तः कृताः तिरस्कृताः। तथा
नोऽस्माकं कुले अन्येनाधिक्रियेरंश्च । आशंसायां कर्मणि लिङ् । कृषीरन्निति वा
पाठः । आशिषि कर्मणि लिङ् ॥
 
१५०४ - स एव धारयेत् प्राणानीदृशे वन्धु-विप्लवे, ॥
 
भवेदा॑श्वासको यस्य सुहृच्छेतो भवादृशः ॥ ४ ॥
स एवेत्यादि - ईदृशे वन्धुविलचे वन्धुविनाशेऽपि स एव प्राणान् धारयेत्
नियोगतो बिभृयात् । निमन्त्रणे नियोगकरणे लिङ् । यस्य भवादृशः सुहृन्मित्रं
शक्त आश्वासकः सान्त्वयिता । भवेत् सम्भावनायां लिङ् ॥
 
१५०५ - म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः, ॥
 
आशंसा च हि नः, प्रेते जीवेम - दशमूर्धनि ॥ ५ ॥
म्रियेयेत्यादि - यदि मे मम गतिः शरणं त्वं न स्याः न भवेः । लिङ् ।
तदा यस्मिन्मुहूर्ते रावणोऽपि नष्टः तस्मान्मुहूर्तादूर्ध्वं म्रियेय । नियोगतः प्राप्त-
कालः । प्राणांस्त्यक्तवानहम् । अत्र प्राप्तकाले गम्यमाने '२८१८। लिङ् चोर्ध्व-
मौहूर्तिके ।३।३।१६४।' इति लिङ् । तत्र हि प्रैपादयोऽनुवर्तन्ते । '२५३८
म्रियतेर्लुङ्लिङोश्च ।१।३।६११' इति तङ् । ततः सार्वधातुकत्वात् शः । हि यस्मा-
नोऽस्माकं नेयमाशंसा । यद्दशमूर्धनि दशानने प्रेते मृते त्वयि वा ऽशरणे जीवेम
प्राणान् धारयिष्याम इति । अत्राशंसावचनस्योपपदत्वात् लिङ् ॥
 
१५०६ - प्रकुर्याम वयं देशे गह्य तत्र कथं रतिम्, ॥
 
:
 
यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः' ॥ ६॥
प्रकुर्यामेत्यादि - यत्र देशे सोदर्यस्य भ्रातुर्विंशतिहस्तस्य न सम्भवोऽस्ति
तत्र कथं वयं गह्य निन्द्यां रतिं प्रकुर्याम करिष्यामः । नैवेत्यर्थः । अत्र गर्हा-
यामित्यधिकृत्य '२८००। विभाषा कथमि लिङ् च । ३।३।१४३ ।' इति कथ-
'मित्युपपदे भविष्यति लिङ् ॥
 
१५०७ - आमन्त्रयेत तान् प्रह्वान्
मन्त्रिणोऽथ विभीषणः - ॥
'गच्छेत त्वरितं लङ्कां,
 
राज- वेश्म विशेत च ॥ ७ ॥
 
आमन्त्रयेतेत्यादि — अथानन्तरं विभीषणः सदसि यैर्मत्रिभिः सह उत्थितः
तान्मन्त्रिणः प्रह्वानामन्त्रयेत कर्मसु नियोगतः संहितवानित्यर्थः । निमत्रणे
नियोगकरणे लिङ् । तदेव दर्शयति । लङ्कां त्वरितं यूयं गच्छेत यात । गताश्च
राजवेश्य विशेत च अत्र विधौ प्रेषणे लिङ् । स हि सर्वलकाराणामपवादः ॥
१५०८- आददीध्वं महार्हाणि तत्र वासांसि स-त्वराः ॥
 
उडुनीयात सत्-केतून्, निर्हरेताऽग्र्य-चन्दनम् ॥८॥