2026-03-05 04:33:16 by ambuda-bot
This page has not been fully proofread.
४४६
भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे षष्टो वर्गः,
धुर्ये, धुरं वहति विपन्ने विनष्टे सति हें क्षणदाचरेन्द्र ! राज्यभारः अनूढः अन्यै-
रनधिष्ठितः सन् मज्जति अधो याति शत्रुभिर्विनश्यति । तस्मात् त्वया समाहि-
तेन राज्यभारो वोढव्य इति ॥
इति श्री -
जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये-
चतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमः परिच्छेदः (वर्गः )
तथा लक्ष्य रूपे कथानके 'विभीषण- प्रलापो' नाम
अष्टादशः सर्गः ॥ १८ ॥
ऊनविंशः सर्गः:-
इतः प्रभृति लिङमधिकृत्य विलसितमाह - तत्र विध्यादिषु लिङ् । ततो-
ऽन्यत्रापि दर्शयिष्यति-
१५०१-अप-मन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान् ॥
'अ-शोच्यो ऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किम्.
अपमन्युरित्यादि - ततोऽनन्तरं पौलस्त्यो विभीषणः अपमन्युः अपगतो
मन्युर्यस्य । प्रादिभ्यो धातुजस्य बहुव्रीहिर्वा चोत्तरपदलोपश्च । रामं वाक्यमुक्त-
वान् । देव ! किमेवमभिधत्से अशोच्य इति । यतः सनाभिः सगोत्रोऽस्तं
व्रजन् विनाशं गच्छन्नशोच्योऽपि सन् किं न दुनुयाद्वियोगेन अवश्यतया किं
नोपतापयेत् । निमन्त्रणे नियोगकरणे लिङ् ॥
१५०२ - तं नो देवा विधेयासुर् येन रावण वद् वयम् ॥
सपत्नांश चा ऽधिजीयास्म, संग्रामे च मृषीमहि. २
तं न इत्यादि - युष्मद्वचनादात्मा मया स्थिरीकृतः किन्त्विदमाशंसे
तमुपायं नोऽस्माकं देवा विधेयासुः । '२४६२ । घु-मा-स्था- । ६।४।६६।' इत्यनु-
वृत्तौ '२३७४। एर्लिङि । ६।४।६७ ।' इत्येकारादेशः । येनोपायेन रावणवत्
सपत्नान् वयमधिजीयास्म । ' उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते' इति सक-
र्मकता । संग्रामे च मृषीमहि । लिङश्वेति । लिङः कित्त्वान्न गुणः । आर्धधातुक-
त्वान्न सलोपः । सर्वत्रैवाशिषि लिङ्गं ॥
१५०३ - क्रियेरंश् च दशाऽऽस्येन
यथा ऽन्येना ऽपि नः कुले ॥
देवद्र्यञ्चो नराऽहारा
न्यश्च द्विषतां गणाः ॥ ३ ॥
क्रियेरन्नित्यादि —यथा दशास्येन नराहारा राक्षसाः देवद्व्यञ्चः देवैः सहा-
ञ्चन्तो गच्छन्तः क्रियेरन् कृताः । '४१८। विष्वग्देवयोश्च । ६३।९२१' इत्या-