2026-03-05 04:33:15 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नामाष्टादशः सर्गः - ४४५
मूर्धजानित्यादि - [ मूर्धजान् ] केशान्विलुञ्चन्ति स्म अपनयन्ति स्म ।
अतिविह्वलं अतिवैक्लव्यं । गुणप्रधानो निर्देशः । क्रोशन्ति स्म फूत्कारं कुर्वन्ति
स्म । अन्तःपुराणीत्यर्थः । भर्तुश्चोपकाराणां मुहुरधीयन्ति स्म । '११२० ।
इक् स्मरणे' । '६१३। अधीगर्थ - । २।३।५२१' इति कर्मणि पष्ठी । प्रमन्यु-
चेति क्रियाविशेषणं प्रकृष्टशोकमित्यर्थः । 'प्रमन्यवः' इति पाठान्तरं प्रकृष्ट-
शोका इत्यर्थः ॥
१४९७–रावणस्य नमन्ति स्म पौराः सात्रा रुदन्ति च ॥'
भाषते स्म ततो रामो वचः पौलस्त्यमा॑कुलम् - ॥३९॥
रावणस्येत्यादि - पौराश्च रावणस्य नमन्ति स्म नमस्यन्ति । पादावित्यर्थात्
तत्सम्बन्धित्वात् । सास्राश्च सन्तः रुदन्ति च स्म । ततोऽनन्तरं रामः पौलस्त्यं
विभीषणं आकुलं वचो भाषते स्म उक्तवान् ॥
१४९८ - 'दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पितृन् ॥
युद्धऽभग्ना॒ऽविपन्नस्य किं दशाssस्यस्य शोचसि. ४०
दातुरित्यादि - दशास्यो दाता, द्विपां मूर्ध्नि स्थाता, यष्टा यज्ञानां पितॄन्
तर्पयिता । '१९५६। तृप तृप्तौ' 'चुरादिः । युधि देवादीनां संग्रामेऽभग्नः अवि-
पन्नः । तस्यैवंविधस्य किं शोचसि शोच्यमेव नास्ति । वर्तमाने लट् ॥
१४९९ - वोभवीति न सम्मोहो व्यसने स्म भवादृशाम्, ॥
किं न पश्यसि, सर्वो ऽयं जनस् त्वम॑वलम्वते ॥४१॥
बोभवीतीत्यादि - भवादृशां युष्मद्विधानां व्यसनेषु दुःखेषु सम्मोहः
अज्ञानं न बोभवीति अत्यर्थं न भवति । यङ्लुकि रूपम् । एवं च सति स्वार्थो
न हीयते । यतः किं न पश्यसि अयं सर्वो जनः त्वामवलम्बते 'त्वमेव स्वामी'
इति प्रतीक्षते ॥
१५०० -त्वम॑र्हसि भ्रातुरे॑नन्तराणि
कर्तुं, जनस्या ऽस्य च शोक-भङ्गम्, ॥
धुर्ये विपन्ने त्वयि राज्य-भारो
मज्जत्य॑नूढः क्षणदा-चन्द्र ! ॥ ४२ ॥
इति भट्टिकाव्ये तिङन्तकाण्डे लविलसितो
नामाऽष्टादशः सर्गः ॥
त्वमईसीत्यादि - तस्मात् भ्रातुरनन्तराण्यग्निसात्कारादीनि कर्तुं त्वमर्हसि
युज्यसे । अस्य च जनस्य शोकभङ्गं शोकापनयनं कर्तुं च । अन्यथा त्वयि
३८